SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ १७४ संगीतरत्नाकरः शदकोऽवशिष्टः प्लुताल्लभ्यः । तेन हीनेऽन्त्यशेष एकस्मिन् पूरणसंख्याया ज्ञानमयं प्रथम इत्येतदुद्दिष्टोत्तरम् । तस्मिन्नेन प्रस्तारे प्लुतद्रुतात्मके भेद उद्दिष्टे तत्र द्रुतस्यान्त्यत्वात् अन्त्यं त्रयस्त्रिंशदकं मुक्त्वा प्लुतस्योपान्त्यत्वात् उपान्त्य एकोनविंशत्यके तदपेक्षया प्राचि षष्ठ एकाङ्के पातिते सति येऽवशिष्टाः दश, ते प्लुतालभ्या भवन्ति । तेहींनस्यान्त्यस्य त्रयस्त्रिंशदङ्कस्य शेषे पञ्चदशाङ्के पूरणसंख्याया ज्ञानमयं पञ्चदशो भेद इत्येतदुद्दिष्टोत्तरम् । तथा लघुप्लुतप्रस्तारे प्लुतलघ्वात्मके भेद उद्दिष्टे तत्र लघ्वोरन्त्यत्वात् तेनान्त्ये प्लुतहेतौ षष्ठाङ्के पतितः तत्पूर्वस्त्रयस्त्रिंशदको लब्धः । अथोपान्त्येन प्लुतेन प्लुतहेतावेकोनविंशत्यके, ततः प्राचि षष्ठ एकाङ्के पातिते सत्यष्टादशावशिष्टा लब्धाः । एवं लघुप्लुताभ्यां लब्ध एकपञ्चाशदके तेन हीनस्यान्त्यस्य षष्ठाङ्कस्य शेषे नवाके पूरणसंख्याया ज्ञानमयं नवमो भेद इत्येतदुद्दिष्टोत्तरम् । तथात्रैव प्रस्तारे द्रुतप्लुतदुतात्मके भेदे उद्दिष्टे तत्र द्रुतस्यान्यत्वात् अन्त्यं पष्ठाकं मुक्त्वा प्लुतास्योपान्त्यत्वेन उपान्त्ये त्रयस्त्रिंशदङ्के ततः प्राचि सप्तम एकाङ्के पातिते सति द्वात्रिंशदकोऽवशिष्टः प्लुताल्लभ्यते । तेन हीनस्यान्त्यस्य षष्ठाङ्कस्य शेषेऽष्टाविंशत्यके पूरणसंख्याया ज्ञानमयमष्टाविंशतितम इत्येतदुद्दिष्टोत्तरम् । तथा तत्रैव प्रस्तारे प्लुतदृतद्वयात्मके भेद उद्दिष्टे द्रुतद्वयस्यान्त्यत्वादन्त्योपान्त्यौ षष्ठाङ्कत्रयस्त्रिंशदको विहायकोनविंशत्यके मध्ये, ततः प्राचि षष्ठ एकाङ्के पातिते सत्यवशिष्टोऽष्टादशाङ्कः प्लुतालव्धः । तेन हीनस्यान्त्यषष्ठाङ्कस्य शेषे द्विचत्वारिंशदके पूरणसंख्याया ज्ञानमयं द्विचत्वारिंशत्तम इत्येतदुद्दिष्टोत्तरम् । तत्रैव प्रस्तारे द्रुनद्वयप्लुतात्मक उद्दिष्टे भेदे प्लुतस्यान्त्यत्वात् अन्त्ये षष्टयके ततः प्राचि सप्तमेऽके पातिते सत्यवशिष्टोऽष्टपञ्चाशदङ्कः प्लुताल्लब्धः । तेन हीनस्यान्त्यस्य षष्टयङ्कस्य शेषे द्वयके पूरणसंख्याया ज्ञानमयं द्वितीय Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy