________________
१२०
संगीतरत्नाकर:
आसारितानामुत्पत्तिर्वर्धमानाद्भवत्यतः । तदासारितवद्भाति विधया वक्ष्यमाणया ।। २१० ॥ विशाला चेन्नव कला भित्वाष्टादशधा कृता ।
त्यक्त्वा चान्त्यां कलां तत्तु तदा भाति कनिष्ठवत् ॥ २११ ॥
निश ताश निसमिति लिखेत् । इति संगताया उपोहनम् । ततो यथाक्षरोट्टचच्चत्पुट लिखेत् । तत्र चच्चत्पुटस्याधस्ताच्छताशतान् लिखेत् । इति सुनन्दाया उपोहनम् । ततो द्विकलचच्चत्पुटं लिखेत् । इति सुमुख्या उपोहनम् । परिवर्तनपक्षे तु विशाला संगता वाद्येति क्रमेण कण्डिकानां प्रस्तारो ज्ञेयः ॥
इति कण्डिकावर्धमानम्
(क०) अथासारिताभासनामकवर्धमानं लक्षयितुमाह - आसारितानामित्यादिना । अत्र यत इत्यध्याहर्तव्यम् । यतः कारणादासारि - तानामुत्पत्तिर्वर्धमानाद्भवति, अतः कारणात्चद्वर्धमानं वक्ष्यमाणया विधया आसारितवद्भाति । तां विघां दर्शयति- विशाला चेत्यादिना । विशालाया नव कला अष्टादशधा भित्वा वर्धयित्वा द्विगुणीकृत्येत्यर्थः । अन्त्यां कलामष्टादर्शी कलां त्यक्त्वा च कृता चेत्तदा तद्वर्धमानं सप्तदशकलात्मकत्वात्कनिष्ठवत् कनिष्ठासारितवद्भाति प्रतीयते ॥ २१०, २११ ॥
(सु० ) आसारिताभासं लक्षयितुमाह - आसारितानामिति । यतः वर्धमानात् आसारितानामुत्पत्तिः ; अत: कारणात् तद्वर्धमानं वक्ष्यमाणप्रकारेण आसारितवत् भासते । तमेव प्रकारमाह - विशालेति । नवकलाभि: अन्विता विशाला भित्वा कलाभेदं कृत्वा अष्टादशधा क्रियते । अन्त्या च काला यदा त्यज्यते, तदा वर्धमानं कनिष्टासारितवत् भाति ॥ २१०, २११ ॥
इति कनिष्ठासारिताभासं वर्धमानम्
Scanned by Gitarth Ganga Research Institute