SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ १०८ संगीतरत्नाकरः मध्यमासारिते पुनः । उत्तरा द्विकला ज्ञेयास्त्रयस्तेष्वादिमे कलाः ॥ १८५ ॥ आद्यास्तिस्रस्त्यजेत् । अस्य प्रस्तार:-शनिता निशता प्रनिसं । निप्र तासं निश ताप्र निर्स । निता शनिता निशता प्रनिर्स ॥ इति मध्यमासारितम् (क०) अथ मध्यमासारितं लक्षयति-मध्यमासारिते पुनरित्यदि। त्रयः द्विकला उत्तराः षपितापुत्रकाः । तेषु ; उत्तरेषु आदिमे उत्तर आद्यास्तिस्रः कलाः त्यजेत् । षट्पितापुत्रकोक्तकलासु आद्यास्तिस्रो निपातः । निप्रतान् परित्यज्य शम्यादिकलाः प्रयुञ्जीतेत्यर्थः ।। -१८५, १८५ ॥ अस्य ; मध्यमासारितस्य प्रस्तारो यथा-आदौ द्वितीयपादभागस्थमन्तिमं गुरुं लिखित्वा ततो द्विकलेषु चतुर्पु पादभागेषु अष्टौ गुरून् लिखेत । एवं नवानां गुरूणामधः क्रमेण शनिता निशता प्रनिसमित्येतावत् लिखेत् । एवं द्विकलः प्रथमः षपितापुत्रकः । ततोऽपि द्विकलौ द्वौ पितापुत्रको साकल्येन लिखेत् ॥ __ इति मध्यमासारितम् ____ मध्यमासारितं लक्षयति-मध्यमेति । मध्यमासारिते द्विकला: त्रय उत्तरा: घपितापुत्रका ज्ञातव्याः । तेषु आदिमे पितापुत्रके, तिस्र आद्याः कलाः त्यजेत् निवारयेदिति ॥ -१८५, १८५- ॥ इति मध्यमासारितम् Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy