SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ द्वितीयो गगविवेकाध्यायः बङ्गाल: पाडवादेव बङ्गालो ग्रहांशन्याममध्यमः। प्रहर्षे विनियोक्तव्यः प्रोक्तः सोढलसूनुना ।। ७८॥ इति बङ्गालः। भिन्नषड्जः षड्जोदीच्यवतीजातो भिन्नषड्जो रिपोज्झितः । धांशग्रहो मध्यमान्त उत्तरायतया युतः ।। ७९ ॥ संचारिवर्णरुचिरः प्रसन्नान्तविभूषितः । काकल्यन्तरसंयुक्तश्चतुराननदैवतः ॥ ८ ॥ हेमन्ते प्रथमे यामे बीभत्से सभयानके। सार्वभौमोत्सवे गेयो भैरवस्तत्समुद्भवः ।। ८१ ।। इति भिन्नषड्जः। भैरवः धांशो मान्तो रिपत्यक्तः प्रार्थनायां समखरः। तथोक्ता। अस्यामंशत्वेन बहुलान्मध्यमादन्यस्वराः प्रयोगे मिथः समबला इत्यर्थः । एवमन्यत्रापि समेतरस्वरत्वं द्रष्टव्यम् ॥ ७७ ॥ (सं०) तोडिको लक्षयति-तोडिकेति । षड्जस्तारो यस्यां सा सतारा। कम्पयुक्त: पञ्चमो यस्यां सा कम्प्रपञ्चमा । इतरे स्वरा मध्यमपञ्चमाभ्यामन्ये समा यस्याम् ॥ ७७ ॥ (सं०) बङ्गालं लक्षयति-षाडवादिति ॥ ७८ ॥ (सं०) भिन्नषड्ज लक्षयति-षड्जोदीच्यवतीति। ऋषभपञ्चमोज्झितः। Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy