SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ चतुर्थः प्रबन्धाध्यायः ३४९ अधमरूपकस्य द्वैविध्यमाह - खल्लोत्तारेति । पञ्चानां लक्षणमाह - रूपकमिति । पूर्व सिद्धं नवेन स्वस्थानकेन रागेण तालेन वा यत् क्रियते तत् परिवृत्तकम् । 1 यत्र रूपके स्थायिनि स्वरे स्वस्थानं पूर्वं तस्मिन्नेव स्थायिनि रागतालपरिवर्तेन स्वस्थानवृत्तिर्ज्ञातव्या । पदान्तरं लक्षयति - तस्मिन्निति । भञ्जनीसंश्रितं लक्षयति — केनापीति । खल्लोत्तारं लक्षयति - प्रागिति । रूपकान्तरगताः स्थाया मात्वन्तरे निवेश्यन्ते चेत्, तदा खल्लोत्तारः । स एव किंचिद्धातुविलक्षणश्वेत्, अनुसारः । गीतगुणान् कथयति — व्यक्तमिति । व्यक्तादयो दश गुणा भवन्ति । तेषां लक्षणं कथयति - तत्रेति । सुगमम् । गीतदोषानाह - दुष्टमिति । लोकेन शास्त्रेण च दुष्टत्वम् । कालविरोध: ; निषिद्धकाले गानम् | श्रुतिविरोध: ; हीनश्रुतित्वम् ॥ ३६१-३८० ॥ इति श्रीमदन्ध्रमण्डलाधीश्वर प्रतिगण्ड भैरवश्री अनपोतनरेन्द्रनन्दनभुजबलभीमश्री सिंहभूपालविरचितायां संगीतरत्नाकरटीकायां संगीतसुधाकराख्यायां प्रबन्धाध्यायः समाप्तः 1 इदं च वाक्यमेवमेव मातृकायां दृश्यते । परं तु शोधनीयम्; यथा - ' यस्मिन् स्थायिनि स्वरे यत्स्थानकं रूपकं पूर्वं कृतं तत् स्थानमेव स्वस्थानम् । तदन्यत्त्वं नाम पूर्वस्मादन्यस्य स्थायिनः स्वरस्य परिवर्तनमेव । तस्मिन्नेव स्थायिनि स्वरे रागतालपरिवृत्तिर्ज्ञातव्या' इति । Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy