SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ चतुर्थः प्रबन्धाध्यायः खल्लोत्ताररूपकम् प्राग्रूपकगता स्थायाः स्थानान्तरगता यदि । मात्वन्तरेण रच्यन्ते खल्लोत्तारस्तदा भवेत् ॥ ३७२ ॥ इति खल्लोत्ताररूपकम् । अनुसाररूपकम् रागे ताले च तत्रैव किंचिद्धातुविलक्षणः । मात्वन्तरेणानुसारो गुणोत्कर्षविवर्जितः ॥ ३७३ ॥ इत्यनुसाररूपकम् । इति रूपकप्रबन्धाः। गीतगुणाः व्यक्तं पूर्ण प्रसन्नं च सुकुमारमलंकृतम् । समं सुरक्तं श्लक्ष्णं च विकृष्टं मधुरं तथा ।। ३७४ ।। दशैते स्युर्गुणा गीते तत्र व्यक्तं स्फुटैः स्वरैः । प्रकृतिप्रत्ययैश्चोक्तं छन्दोरागपदैः स्वरैः ।। ३७५ ॥ पूर्ण पूर्णाङ्गगमकं प्रसन्नं प्रकटार्थकम् । सुकुमारं कण्ठभवं त्रिस्थानोत्थमलंकृतम् ।। ३७६ ।। समवर्णलयस्थानं सममित्यभिधीयते । सुरक्तं वल्लकीवंशकण्ठध्वन्येकतायुतम् ।। ३७७ ॥ नीचोचद्रुतमध्यादौ श्लक्ष्णत्वे श्लक्ष्णमुच्यते । उच्चैरुच्चारणादुक्तं विकृष्टं भरतादिभिः ॥ ३७८ ॥ मधुरं धुर्यलावण्यपूर्ण जनमनोहरम् । इति गीतगुणाः। Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy