________________
चतुर्थः प्रबन्धाध्यायः
३३९ ___ प्रतिमण्ठप्रबन्धः मण्ठवत् प्रतिमण्ठादेर्लक्ष्मोद्वाहादिकं मतम् ॥ ३३८ ॥ तथाप्येषां विशेषस्तु प्रत्येक प्रतिपाद्यते। तत्र च प्रतिमण्ठेन तालेन प्रतिमण्ठकः ॥ ३३९ ॥ चतुर्धा सोऽमरस्तारो विचारः कुन्द इत्यपि। अमरो गुरुणैकेन शृङ्गारे स विधीयते ॥ ३४० ॥ विरामान्तद्रुतद्वंद्वाल्लघुद्वंद्वेन जायते । ताराख्यः प्रतिमण्ठोऽसौ रसयोर्वीररौद्रयोः ॥ ३४१ ॥ लघुत्रयाद्विरामान्ताद्विचारः करुणे भवेत् । कुन्दो विराममध्येन लत्रयेणाद्भते भवेत् ॥ ३४२ ॥ ते शृङ्गारेऽपि चत्वारो गीयन्ते लक्ष्मवेदिभिः।
इति प्रतिमण्ठप्रवन्धः।
निःसारुकप्रबन्धः बद्धो निःसारुतालेन प्रोक्तो निःसारुको वुधैः ॥ ३४३ ।। वैकुन्दानन्दकान्ताराः समरो वाञ्छितस्तथा । विशालश्चेति स प्रोक्तः षड्विधः सूरिशाङ्गिणा ॥३४४॥ द्रुतद्वंद्वाल्लघुद्वंद्वाद्वैकुन्दो मङ्गले भवेत्।।
कुर्यादानन्दमानन्दे विरामान्तद्रुतद्वयात् ॥ ३४५ ॥ पौनरुक्त्यं लक्षणतः प्रतीतं भविष्यति । तस्य तत्रैव परिहारं वक्ष्याम इति 'अत्र पृथङ् नोच्यते । ननु जयन्तादिषु षोडशसु ध्रुवेषु योऽक्षरसंख्यानियम उक्तः, स वर्तमानेषु केषुचित् ध्रुवेषु न दृश्यते ; तत् कथं तेषां लक्षणहीनत्वेऽपि लोके परिग्रह इति चेत्, सत्यमेतत् । अत्राक्षरशब्देन पदान्यप्युच्यन्ते; यथायमक्षरार्थ इति पदार्थो वर्ण्यते । तेन कचित् पदानां वा संख्याया नियमो
Scanned by Gitarth Ganga Research Institute