SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ चतुर्थः प्रवन्धाध्यायः ओवीप्रबन्धः खण्डत्रयं प्रासयुतं गीयते देशभाषया ।। ३०४ ॥ ओवीपदं तदन्ते चेदोवी तज्ज्ञैस्तदोदिता। त्रयाणां चरणानां स्युरेकाद्यावृत्तितो भिदाः ॥ ३०५ ।। आदिमध्यान्तगैः प्रासैरेकायैश्च पदे पदे । छन्दोभिर्बहुभिर्गेया ओव्यो जनमनोहराः ।। ३०६ ।। इत्योवीप्रबन्धः। लोलीप्रवन्धः सानुप्रासेस्त्रिभिः खण्डैर्मण्डिता प्राकृतैः पदैः । प्रान्ते लोलीपदोपेता लोली गेया विचक्षणः ॥ ३०७॥ इति लोलीप्रबन्धः। ढोल्लरीप्रवन्धः दोहडः स्याद्यदा प्रान्ते प्रोल्लसदोल्लरीपदः । ढोल्लरी नाम सा प्रोक्ता लाटभाषाविभूषिता ।। ३०८॥ इति ढोल्लरीप्रबन्धः। दन्तीप्रबन्धः अनुप्रासप्रधानं चेत् खण्डत्रयसमन्वितम् । दन्तीपदान्वितं प्रान्ते तदा दन्ती निगद्यते ॥ ३०९ ।। इति दन्तीप्रबन्धः। (क०) ओव्यादीनां चतुर्णा लक्षणानि स्फुटार्थानि । मेलापकाभोगवर्जितत्वाच्चत्वारोऽपि द्विधातवः । तत्राद्यं खण्डद्वयमुनाहः । तृतीयं खण्डं ध्रुवः । इति Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy