SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ चतुर्थः प्रबन्धाध्यायः तालमानद्वयन्यासो निःशङ्केन प्रकीर्तितः ॥ २८७ ॥ इति श्रीवर्धनप्रबन्धः। हर्षवर्धनप्रबन्धः पदैश्च विरुदैहर्षवर्धनः स्वरपाटकः । इति हर्षवर्धनप्रबन्धः। वदनप्रबन्धः छपद्वयं दो वदनं स्वरपाटयुतान्तरम् ॥ २८८ ।। तथोपवदनं प्रोक्तं छगणाचदतैर्युतम् । तथैव वस्तुवदनं छयुगाद्दचतैः कृतम् ॥ २८९ ॥ इति वदनप्रबन्धः। पाटाभ्यामुग्राहः । पदस्वराभ्यां ध्रुवः । सुगममन्यत् । हर्षवर्धनलक्षणं स्पष्टार्थम् ॥ २८७, २८८ ॥ (सं०) श्रीवर्धनं लक्षयति-श्रीवर्धन इति । बिरुदादिभिर्विरचितः श्रीवर्धनः। तस्य तालावृत्तिद्वयेन न्यासः । हर्षवर्धनं लक्षयति--पदैरिति । पदबिरुदमात्रैविरचितो हर्षवर्धनः ॥ २८७, २८८ ॥ (क०) अथ वदनं लक्षयति-छपद्वयमित्यादि । छपयोः छगणपगणयोर्द्वयं दो दगणश्चेति वदनस्य पादे त्रयो मात्रागणा भवन्ति । अयमेवो ग्राहः । स्वरपाटयुतान्तरमिति । तादृगेव द्वितीयः पादः स्वरपाट्युतः सन्नन्तर इति व्यपदिश्यते । अत्र युतशब्देन 'छपद्वयं दः' इत्येतदन्तरेऽपि कर्तव्यमिति गम्यते ; अन्यथा स्वरपाटकृतान्तरमित्येव ब्रूयात् । अत्रान्तरशब्देन ध्रुव उच्यते, उग्राहाभोगयोर्मध्ये भवत्वात् । न तु ध्रुवाभोगान्तरजातो धातुः; तथा सति पत्र पार्थक्येन ध्रुवेण भवितव्यम् ; तदभावादिति भावः । स्वरपाट Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy