________________
३१०
संगीतरत्नाकरः बहवस्ताला अस्येति सः। अत्रैकावृत्तिमतां तालानां बाहुल्यं विवक्षितमिति भूरितालेभ्योऽपि पञ्चतालेश्वरादिभ्योऽस्य भेदो द्रष्टव्यः । तत्र कामतः केषुचित् तालेषूद्ग्राहः, केपुचिद् ध्रुवः कर्तव्य इति मन्तव्यम् । आभोगो गातृनेतृप्रबन्धनामाङ्कितः कर्तव्यः । तत्र भूरितालत्वनियमाभावोऽपि द्रष्टव्यः । तेनायं त्रिधातुः । तालाद्यनियमादनियुक्तः । अत्र पदादिकाङ्गनियमस्यानुक्तत्वात् कामतः षडादिद्वयन्ताङ्गबद्धः कर्तव्यः । अतो रागकदम्बवन्मेदिन्यादिजातिमान् ।। ॥ २५६-२६५॥
___ (सं०) पञ्चतालेश्वरं लक्षयति-अताल इति । तालहीन आलाप: कर्तव्यः । यद्यप्याला पशब्देनाप्यतालत्वं लभ्यते, तथाप्यत्र विहिततालप्राप्ति: स्यादिति तन्निरासार्थमुक्तमताल इति । ततोऽनन्तरं चच्चत्पुटेन तालेन पञ्च पदानि पृथग्विर्गयानि । तेनैव चच्चत्पुटेन स्वरा: पाटाश्च कर्तव्याः । चच्चत्पुटद्वयमानेन पटहसंभवैः पाटाक्षरैरन्तरः कर्तव्यः । ततोऽनन्तरं चाचपुटेन पञ्च पदानि कर्तव्यानि । पृथग्विर्गेयानीत्यनुपञ्जनीयम् । तस्यैव वा चाचपुटस्य मानद्वयेन हुडुक्पाटैरन्तरः कर्तव्यः । ततोऽनन्तरं पटिपतापुत्रकेण पञ्च पदानि पृथक् द्विगैयानि । तेनैव स्वराः पाटा गेयाः । ततः षट्पितापुत्रकमानद्वयेन शङ्खपाटैरन्तरपदं गेयम् । ततः संपक्केष्टकातालेन षट् पदानि स्वराः पाटाश्च गेया: । मानद्वयेन कांस्यतालपाटैरन्तरः । तत उद्दट्टेन षट् पदानि स्वरा: पाटा अन्तरश्च पूर्ववत् मानद्वयेन । ततोऽविलम्बितमानेनाभोगः । तत्राभोगे पूर्वमानं प्रबन्धनाम्ना कर्तव्यम् । ततोऽनन्तरं नेतु यकस्य नाम । अथ कल्याणमाशीर्वादनामानि । ततो वाक्यरूपेण मेलापके प्रयोगबहुले न्यासः । एष पञ्चतालेश्वर इति ज्ञेयः । स द्विप्रकार:-वीररसे वीरावतारः; शृङ्गारे शृङ्गारतिलक इति । तस्मिन् पञ्चतालेश्वरे गीते सति सर्वदेवताप्रीतिः फलम् ।
___ तालार्णवं लक्षयति-तालार्णव इति । बहुभिस्तालैरुपनिबध्यमानस्तालार्णवः ॥ २५६-२६५ ॥
Scanned by Gitarth Ganga Research Institute