SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ २७४ संगीतरत्नाकरः तालमेकवारं प्रयुज्य न्यासं कुर्यादित्यर्थः । अत्र गद्यप्रबन्धे तालरहितो भाग उग्राहत्वेन ग्राह्यः । पदद्वयात्मकः सतालः पृथग्द्विरावृत्तो भागो ध्रुवत्वेन ग्राह्यः । प्रयोगादिः सतालश्चरमो भाग आभोगत्वेन ग्राह्य इत्यनुक्तोऽप्युग्राहादिविभागश्चैवमूहनीयः । अतोऽयं त्रिधातुः । तालाद्यनियमादनियुक्तः । पदस्वरतालबद्धत्वात् त्र्यङ्गः । भावनीजातिमान् ॥ १८४-१९८ ॥ (सं०) गद्यं लक्षयति-गद्यमिति । छन्दोहीनपदकम्बकं गद्यमित्युच्यते । तत् षट्प्रकारम्-उत्कलिका, चूर्णकम् , ललितम् , वृत्तगन्धि, खण्डम् , चित्रं चेति । तेषां सामवेदादुत्पत्तिः । एतेषां लक्षणमाह-गातव्येति । उत्कलिका वीररसे गेया । रक्ता रक्तवर्णा | रुद्रदेवत्या : वर्णदेवताकथनमुपास्यत्वेन प्राशस्त्यार्थम् । गौडीया रीतिर्यस्यां सा गौडीयरीतिः। उचितां वीररसोचितामारभटी वृत्तिमाश्रिता । चूर्ण लक्षयति-चूर्णमिति । शान्ते रसे चूर्ण गातव्यम् । तत्र पीतो वर्णः, ब्रह्मा देवता, वैदर्भी रीतिः, सात्त्वती वृत्तिः । ललिताख्ये गये सितो वर्णः, मदनो देवता, शृङ्गारो रसः, कैशिकी वृत्तिः, पाञ्चाली रीतिः । वृत्तगन्धिनि गद्ये शान्तो रसः, पीतो वर्णः, मुनिर्देवता, पाञ्चाली रीतिः, भारती वृत्तिः, परंतु तत् पद्यभागेन विमिश्रितं कर्तव्यम् । खण्डे गद्ये गणेशो देवता, सात्वती वृत्तिः, श्वेतो वर्णः, हास्यो रसः, सात्त्वतीसहिता वैदर्भी रीतिः । चित्रे गये शृङ्गारो रसः, विष्णुदेवता, कैशिकी वृत्तिः, वैदर्भी रीति: । मतान्तरेण भेदद्वयमाह-वेणीति । तदेव भेदद्वयं लक्षयतिवेणी सर्वैरिति । सर्वैः पूर्वोक्तैः षड्भिर्गद्यैर्विरचिता वेणीत्युच्यते । चूर्णैर्वृत्तगन्धिभिमिश्रितैविरचितं मिश्रमित्युच्यते । क्रमेण गद्यषट्के गतिमाह-द्रुतेति । उत्कलिकायां द्रुता गतिः, चूर्णे विलम्बिता गतिः, ललिते मध्या गतिः, वृत्तगन्धिनि द्रुतमध्या गतिः, खण्डे द्रुतविलम्बिता गतिः, चित्रे मध्यविलम्बिता गतिरिति । बहुभिरिति । बहुभिर्लघुभिरुत्कलिका कर्तव्या । अल्पैर्लघुभिश्चूर्णकम् | समैलघुभिर्ललितम् । पृथकस्थितैर्लघुभिर्वृत्तगन्धि । पृथक्स्थितैर्गुरुभिः खण्डम् । मिश्रितैश्चित्रमिति । एतेषामुक्तषड्डिधगतियुक्तत्वेन षड्डिधत्वे षट्त्रिंशत् (३६) Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy