SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ द्वितीयो रागविवेकाध्यायः उपरागाः अष्टोपरागास्तिलकः शकादिष्टकसैन्धवः । कोकिलापश्चमो रेवगुप्तः पश्चमषाडवः ॥ १५ ॥ भावनापश्चमो नागगान्धारो नागपञ्चमः। रागाः श्रीरागनहौ बङ्गालो भासमध्यमषाडवौ ॥ १६ ॥ रक्तहंसः कोल्हहासः प्रसवो भैरवो ध्वनिः।। मेघरागः सोमरागः कामोदौ चाम्रपञ्चमः ॥ १७ ॥ स्यातां कंदर्पदेशाख्यौ ककुभान्तश्च कैशिकः। ननारायणश्चेति रागा विंशतिरीरिताः ॥ १८ ॥ मध्यमग्रामे समुत्पन्नाः ; एवं सप्त शुद्धाः । नन्वेते रागा ग्रामविशेषसंबद्धा इति कुतोऽयं विशेषलाभ: ? उच्यते-भरतवचनादेवासौ विशेषो लभ्यते ; यदाह भरतमुनि:-"जातिसंभूतत्वाद्रागाणाम्" इति ; “यत्किचिद्गीयते लोके तत्सर्व जातिषु स्थितम्" इति च । भिन्नान्विभजते-भिन्नाः स्युरिति । कैशिकमध्यमो भिन्नषड्ज इत्येतौ द्वौ भिन्नौ षड्जग्रामे ; तान: कैशिको भिन्नपश्चम इति त्रयो भिन्ना मध्यमग्रामे ; एवं पञ्च भिन्नाः । गौडकैशिकमध्यमो गौडपञ्चमक इत्येतौ षड्जग्रामे ; गौडकैशिको मध्यमग्रामे ; एवं त्रयो गौडा: । टक्को वेसरषाडवः सौवीर इत्येते त्रयः षड्जग्रामे ; बोट्टो मालवकैशिको मालवपञ्चम इत्येते त्रयो मध्यमग्रामे ; टक्ककैशिको हिन्दोल इत्येतौ ग्रामद्वयसंभूतौ ; एवमष्टौ वेसराः । रूपसाधार: शको भम्माणपञ्चम इत्येते त्रयः षड्जग्रामोत्पन्नाः; नों गान्धारपञ्चमः षड्जकैशिक इत्येते त्रयो मध्यमग्रामोत्पन्ना: ; द्विग्रामः ककुभः ; एवं सप्त साधारणाः । मिलिता ग्रामरागास्त्रिंशत् ॥ ८-१४ ॥ (क०) अष्टोपरागा इति । जातिभ्यो जातानामपि ग्रामरागसमीपभावित्वादष्टानामुपरागत्वम् । तिलकः शकादिरिति । शकशब्दादि Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy