SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ चतुर्थः प्रबन्धाध्यायः पञ्चाङ्कवामपाश्वे त्रिसंख्याको लेखनीयः । इति चतुर्वङ्केषु लिखितेप्वेकं दश शतं सहस्रमित्यादिकया गणितपरिभाषया बिन्द्रादिक्रमेण योजितेषु दशोत्तरपञ्चशतीयुतानि त्रीणि सहस्राणि (३५१०) झोम्बडाः संख्याता भवन्ति । अयं प्रबन्धस्तालादिनियमान्नियुक्तः । मेलापकस्य वैकल्पिकत्वाच्चतुर्धातुस्त्रिधातुश्च । पदतालबद्धत्वेन द्वयङ्गत्वात् तारावलीजातिमान् ॥ १५५-१६८ ॥ (सं०) झोम्बडं लक्षयति-द्विर्यत्रेति । यत्रोद्गाहस्य पूर्वार्ध द्विर्गीयते, तत उत्तरार्ध सकृत् , ततोऽनन्तरं गमकसंयुक्तो मेलापकः; स च विकल्पेन स्यात् ; क्रियते वा, न वेत्यर्थः । ततोऽनन्तरं ध्रुवो द्विर्गीयते; तत: सकृदाभोगं गीत्वा ध्रुवे समाप्तिः ; स झोम्बड इति ज्ञेयः । तत्र तालान्नियमयति-निःसारुक इति । निःसारुकादय एकताल्यन्ता दश ताला झोम्बडे कर्तव्याः । केषांचिन्मते मण्ठतालोऽपि । परं तु स लक्ष्ये न दृश्यते ; तस्मान्न कर्तव्यः । स झोम्बडो द्विविधः-तारजोऽतारजश्चेति । तत्र तारजं लक्षयति- तारज इति । तारस्थानोत्पन्नो ध्वनिस्तार इत्युच्यते ; तेन युक्तो झोम्बडस्तारजः । स चतुष्प्रकार: -उद्गाहध्रुवमेलापकाभोगेषु तारनिवेशनात् । अतारजं लक्षयति-अतारज इति । तारहीनः तारस्थानेन हीनोऽतारजः । एवं पञ्च भवन्ति । पुनस्तारजा द्विप्रकारा:-त्रिधातवश्चतुर्धातव इति । एवं सर्वे नवापि प्रभूतगमकस्तोकगमकभेदेन द्विधा । बहुगमकयुक्ताः प्रभूतगमकाः ; अल्पगमकयुक्ता स्तोकगमकाः । एवमष्टादश । एतेषां प्रायोगिकादिभेदेन पञ्चविधत्वं कथयति-प्रायोगिक इति । चतुभिर्गणैनिर्मितः प्रायोगिकः । पञ्चभिर्गणैनिर्मित: कम: । षड्भिर्गणैर्निर्मितः कमविलास: । सप्तभिर्गणैर्निर्मितश्चित्रः । अष्टभिर्गणैर्निर्मितो विचित्रलील इति । एवं नवतिर्भेदाः । मातृकादयो भेदा लक्ष्येष्वप्रसिद्धत्वान्नोक्ता इत्याह-मातृक इति । विनियोगवशादिति । एषां नवतिसंख्यानां पूर्वोक्तानां झोम्बडानां विनियोगवशात् प्रत्येकं त्रयोदश भेदाः। तानाह-उपमेति । उपमारूपकश्लेषालंकारैर्यदि निबध्यते, तदा ब्रह्मनामा झोम्बडः । वीरो रसः, विलासश्च स्त्रीणां चेष्टाविशेषश्च यदि निबध्यते, तदा विष्णुः । वीररसे चक्रेश्वरः । बीभत्सरसे चण्डिकेश्वरः । Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy