SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ चतुर्थः प्रबन्धाध्यायः २५७ दशापि स्युः पुनस्त्रेधा समालंकरणा तथा । विषमालंकृतिश्चित्रालंकृतिर्लक्षणानि तु ।। १५१ ।। गणजैर्वृत्तैर्गणिका, मात्रिकैर्वृत्तैर्मात्रिकेति तिसृणां लक्षणानि । तत्र वर्णसंख्यामात्रनिर्वृत्तानि वृत्तानि वर्णजानि समानीप्रभृतीनि । गणैर्निर्वृत्तानि गणजानि भुजङ्गप्रयातादीनि । मात्रासंख्ययैव निर्वृत्तानि मात्रिकाणि वैतालीयादीनि । यथोक्तं छन्दोविचितौ " आदौ तावद्गणच्छन्दो मात्राच्छन्दस्ततः परम् । __ तृतीयमक्षरच्छन्दश्छन्दस्त्रेधा तु लौकिकम् ।" इति । आयद्यार्यागीतिपर्यन्तं गणच्छन्दः । वैतालीयादि चूलिकापर्यन्तं मात्राच्छन्दः । समान्यादिकमुत्कृतिपर्यन्तमक्षरच्छन्द इति । तेषां त्रिविधानां वृत्तानां लक्षणानि छन्दःशास्त्रत एवावगन्तव्यानि । दिङ्मात्रप्रदर्शनार्थ किंचिदुदाहियते-- “ओं नमो जनार्दनाय दुष्टदैत्यमर्दनाय । पापबन्धमोचनाय पुण्डरीकलोचनाय ॥" इति समानी। “पथ्याशी व्यायामी स्त्रीषु जितात्मा नरो न रोगी स्यात् । यदि मनसा वचसा च प्रद्रुह्यति नैव भूतेभ्यः ॥" इति पथ्या। "तब तन्वि कटाक्षवीक्षितैः प्रसरद्भिः श्रवणान्तगोचरैः । विशिखैरिव तीक्ष्णकोटिभिः प्रहृतं प्राणिति दुष्करं मनः ॥" इति वैतालीयम् । एवं प्रथमया मुक्तावल्या सह दश ढेक्यो भवन्ति । एतासां 33 Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy