________________
चतुर्थः प्रबन्धाध्यायः
२३९ मात्रैला मात्रागणैस्तु मात्रैला सा च ज्ञेया चतुर्विधा ॥ ९४ ॥ रतिलेखा कामलेखा बाणलेखा तथापरा। चन्द्रलेखेति तत्राद्ये पादे रुद्राः कला यदि ॥ १५ ॥ द्वितीये च तृतीये तु मात्रा दश तथा भवेत् ।
रतिलेखा रतिगणैः कामलेखा तु मान्मथैः ।। ९६ ॥ वहिगणे रगणे क्षिप्ते वह्निजा । वरुणगणे यगणे क्षिप्ते वारुणी । उभयोर्गणयोनिक्षिप्तयोर्वहिवारुणीति । अन्त्यं भेदद्वयं वासव्यामुक्तम् । इत्येवं पञ्चदश भेदाः। पूर्वे च त्रिनवतिर्भेदाः । मिलिता अष्टोत्तरशतं भेदा भवन्ति ॥ ८३-९४ ॥
(क०) मात्रैलां सप्रभेदां लक्षयितुमाह-मात्रागणैस्त्वित्यादि । तत्राद्य इति। तत्र रतिलेखादिषु चतसृषु मात्रैलादिषु मध्य आद्यपादे पञ्चपदात्मक उद्ग्राहावयवे प्रथमपादे रुद्राः कला एकादश मात्राः । द्वितीये चेति; तादृशे द्वितीये पादे । चकारेणात्राप्येकादश कलाः समुच्चीयन्ते । तृतीये विति । पदद्वयात्मके तृतीये पादे । तुशब्दोऽत्र पादद्वयाद्विशेष दर्शयति । स विशेषोऽत्र मात्रा दशेति । तथा भवेदित्युत्तरेण संवन्धः । तथा; पादत्रयोक्तमात्रासंख्यया । रतिगणैः उक्तविशेषैरत्युक्ताभेदैः । रतिगणैरितीत्थंभूतलक्षणे तृतीया । तत्र यैर्मिलितैः प्रथमद्वितीययोः पादयोः प्रत्येकमेकादश मात्राः, तृतीये तु दश मात्राः संमिता भवन्ति, तैरित्यर्थः । रतिलेखा भवेदिति योजना । कामलेखा स्वित्यादि । द्विगुणाभिः कलाभिरिति । रतिलेखोक्तमात्रासंख्यापेक्षया प्रथमद्वितीययोः पादयोः प्रत्येकं द्वाविंशत्या मात्राभिः, तृतीये तु विंशत्या मात्राभिरित्यर्थः। ताभिर्निप्पन्नैः मान्मथैः कामगणैः पूर्वोक्तैर्मध्याभवै दैर्यथायोगं योजितैः कामलेखा स्यात् । मात्रात्रैगुण्यत इत्यादि । रतिलेखापेक्षया प्रथमद्वितीययोः पादयोः प्रत्येकं त्रयस्त्रिंशता मात्राभिः, तृतीये
Scanned by Gitarth Ganga Research Institute