________________
२३७
चतुर्थः प्रबन्धाध्यायः द्वितीये चाद्यभेदाभ्यां द्विविधा वासवी मता। नादावत्यामिमे भेदा हंसावत्यामपि त्रिधा ॥ ९१ ॥ व्योमजा वारुणी व्योमवारुणी चेति संगता। तदैवत्यगणोपेता तदा स्याद्वासवी द्विधा ॥ ९२ ।। नन्दावत्यां वहिजा च वारुणी वहिवारुणी। तद्गणैः संगता त्रेधा तथा द्वेधा च वासवी ।। ९३ ।। इत्येते विकृता भेदा अष्टोत्तरशतं मताः।
इति गणैला
पूर्ववत् क्षिप्ते सति पावनी नाम संगताभेदः । द्वितीये चेति । एकभगणस्थाने सगणे न्यस्ते द्वितीयभगणस्थाने जगणे च क्षिप्ते वातसावित्री नाम संगताभेदः । आद्यभेदाभ्यां द्विविधा वासवी मतेति । एकगणविकारवती वासवी यदा भगणविकारवत्त्वेन जगणवती स्यात् , तदा सावित्री नाम वासवीभेदः । यदा तु सगणवती, तदा पावनी नाम वासवीभेदः । वासव्यां गणद्वयविकाराभावात् तृतीयभेदाभावो द्रष्टव्यः । एवं नादावत्यां विकृतभेदाः पञ्च । हंसावत्यामपि विधेति । हंसावत्यां रगणद्वयस्थाने तगणद्वये क्षिप्ते व्योमजा नाम संगताभेदः। तस्मिन्नेव यगणद्वये क्षिप्ते वारुणी नाम संगताभेदः । द्वयोः स्थाने द्वितये च क्षिप्ते व्योमवारुणी नाम संगताभेदः । तदैवत्यगणोपेतेति । व्योमगणेन वरुणगणेन व्योमवरुणगणाभ्यां चेत्यर्थः । तदा स्याद्वासवी द्विधेति । हंसावत्यां वासवी व्योमजा वारुणीति भेदद्वयवतीत्यर्थः । नन्दावत्यां वहिजेत्यादि । पूर्ववदनुसंधेयम् । भद्रावत्यास्तु सगणात्मकत्वान्मगणस्य विकारासंभवाद्विकृतभेदाभाव इति ग्रन्थकाराभिप्रायो बोद्धव्यः । इत्येत इति । एभिः पञ्चदशभेदैः सह गणैलाया अष्टोत्तरशतं विकृतभेदाः ॥ ८३-९४ ॥
Scanned by Gitarth Ganga Research Institute