SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ २२७ चतुर्थः प्रबन्धाध्यायः मात्रागणाः मात्रा कला लघुर्लः स्यात्तद्गणाइछपचास्तदो। स्युः षट्पञ्चचतुस्त्रिद्विसंख्यमात्रायुताः क्रमात् ॥६३॥ यथा-555 इति छगणः; 55। इति पगणः; 55 इति चगणः;5। इति तगणः;ऽ इति दगणः । इति पञ्च मात्रागणाः॥ अत्युक्तायास्तु चत्वारो भेदा रतिगणा मताः। किंतु तत्र लपूर्वा ये तेष्वादावधिको लघुः ॥ ६४ ॥ " मो भूमिः श्रियमातनोति य जलं पृथ्वी र वह्निर्मृति सो वायुः परदूरदेशगमनं त व्योम शून्यं फलम् । ज: सूर्यो रुजमादधाति विपुलां भेन्दुर्यशो निर्मलं नो नाकः सुखमच्युतं तदखिलं ज्ञेयं प्रयत्नाद् बुधैः ॥" इति । अकारादीनामष्टानां वर्गाणां देवतादिनिवेशनेन च फलमाह-सोम इति । असद्यशः असत्कीर्तिः । मान्द्यं जाड्यम् । शून्यता मोहः ॥ ५३-६२॥ (क०) मात्रागणान् दर्शयितुमाह-पात्रा कलेत्यादि । तद्गणाः मात्रागणाः । छपचास्तदौ क्रमात् षट्पश्चचतुस्लिद्विसंख्यमात्रायुताः स्युरिति । षण्मात्रायुतश्छगणः; पञ्चमात्रायुतः पगणः; चतुर्मात्रायुतश्चगणः; त्रिमात्रायुतस्तगणः ; द्विमात्रायुतो दगण इति क्रमो द्रष्टव्यः । अत्र पञ्चमात्रादिप्वाद्याक्षरैः संज्ञाः कृताः । छगणस्तु सांकेतिको मतभेदप्रदर्शनार्थ इति द्रष्टव्यम् । अथान्यानपि मात्रागणान् दर्शयितुमाह-अत्युक्तायास्त्वित्यादि। अत्युक्ता नामाक्षरद्वयात्मैकपादश्छन्दोभेदः; तस्याः । चत्वारो भेदा इति । " पादे सर्वगुरावाद्याल्लघून्यस्य गुरोरधः । यथोपरि तथा शेषं भूयः कुर्यादमुं विधिम् । ऊने दद्याद्गुरूनेव यावत् सर्वलधुर्भवेत् ॥" Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy