SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ संगीतरत्नाकरः [प्रकरणम् गाढस्त्रिस्थानगमकैरोहाटीललितैः स्वरैः। अखण्डितस्थितिः स्थानत्रये गौडी मता सताम् ॥ ४ ॥ ओहाटी कम्पितैर्मन्द्रमदुद्रुततरैः' स्वरैः। हकारौकारयोगेण हृन्न्यस्ते चिबुके भवेत् ॥५॥ मध्यतारेषु प्रयुक्तैर्यथोचितैर्गमकैः, ओहाटीललितैः ओहाट्या ललितैः स्वरैश्च स्थानत्रयेऽखण्डितस्थितिरविच्छिन्नावस्थाना गीतिौडीति सतां मता । ओहाटीति लक्षणनिरुक्तिः । चिबुके हन्यस्ते सतीति मन्द्रस्वरपरंपराप्रयोगे प्रयत्नोक्तिः । हकारौकारयोगेणोपलक्षितैः, तदा हकारौकारानुकारप्रतीतिर्भवति; न तु साक्षात्तावेवोच्चारणीयावित्यर्थः । एतेनौकारहकारावटति गच्छतीत्योहाटीपदनिरुक्तिः सूचिता । एवं प्रयत्ने क्रियमाणे मृदु कोमलं यथा भवति तथा द्रुततरैरधराधरं शीघैः कम्पितैः कम्पिताख्यगमकयुक्तैर्मन्द्रैः स्वरैरोहाटी भवेदिति लक्षणार्थः । गौडप्रियत्वाद्गौडीति संज्ञावगन्तव्या ॥२-५॥ (सं०) तत्र ग्रामरागान्विभजते—पश्चधेति । ग्रामरागाः पञ्चप्रकारा भवन्ति । केन विशेषेण तेषां पञ्चप्रकारत्वम् ? अत आह–पञ्चगीतिसमाश्रयादिति । कास्ताः पञ्च गीतय इत्यपेक्षायामाह-गीतयः पश्चेति । शुद्धा भिन्ना गौडी वेसरा साधारणीति पञ्च गीतयः । भरतेन मागध्यादयश्चतस्रो गीतय उक्ताः । यदाह "प्रथमा मागधी ज्ञेया द्वितीया चार्धमागधी । संभाविता तृतीया तु चतुर्थी पृथुला स्मृता ॥" इति । मतङ्गेन सप्त गीतय उक्ताः "प्रथमा शुद्धगीतिः स्याद् द्वितीया भिन्नका भवेत् । तृतीया गौडिका चैव रागगीतिश्चतुर्थिका ॥ 1द्वतन्ततः. हदिस्थे. Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy