SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ चतुर्थ: प्रबन्धाध्यायः २१३ पुनः प्रबन्धास्त्रिविधाः सूडस्था आलिसंश्रयाः ।। २२ ।। विप्रकीर्णाश्च तत्रादौ सूडलक्षणमुच्यते । प्रबन्धभेदाः सूडप्रबन्धः एलाकरणढेङ्कीभिर्वर्तन्या झोम्बडेन च ॥ २३ ॥ लम्भरासैकतालीभिरष्टभिः सूड उच्यते । इति सूडप्रबन्धः आलिप्रबन्धः वर्णो वर्णस्वरो गद्यं कैवाडचाङ्कचारिणी ॥ २४ ॥ कन्दस्तुरगलीला च गजलीला द्विपद्यपि । चक्रवालः क्रौञ्चपदः स्वरार्थो ध्वनिकुहनी ।। २५ ।। आर्या गाथा द्विपथकः कलहंसश्च तोटकम् | घटो वृत्तं मातृका च ततो रागकदम्बकः ॥ २६ ॥ पञ्चतालेश्वरस्तालार्णव इत्येषु कश्चन । सूडक्रमस्य मध्ये चेदसावालिक्रमो भवेत् ॥ २७ ॥ सूडालिक्रमसंबन्धाद् द्वात्रिंशदिति कीर्तिताः । इत्यालप्रबन्धः विप्रकीर्णप्रबन्धाः ततोऽन्ये विप्रकीर्णास्तान् प्रसिद्धान् कतिचिद् ब्रुवे ||२८|| छन्दांसि त्रिष्टुबादीनि । तालाश्चचत्पुटादयः । आदिशब्देनाङ्गधातुरागरसभाषादयो गृह्यन्ते । तेषामनियमादाद्यः अनिर्युक्त इत्यर्थः । तेषां नियमात्तु परः निर्युक्तः स्यादित्यर्थः । अष्टभिः सूड उच्यत इति । सूड इति गीतविशेष Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy