SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ श्री निःशङ्कशार्ङ्गदेवप्रणीतः संगीतरत्नाकरः चतुरकल्लिनाथविरचितया कलानिधिटीकया, सिंहभूपालविरचितया संगीतसुधाकरटीकया च समेतः द्वितीयो रागविवेकाध्यायः ग्रामरागोपरागरागभाषाविभाषान्तरभाषा विवेकाख्यं प्रथमं प्रकरणम् अथ ग्रन्थेन संक्षिप्तप्रसन्न पदपङ्क्तिना । निःशङ्को निखिलं रागविवेकं रचयत्यमुम् ॥ १ ॥ (क०) स्वरगतप्रतिपादितजातिजन्यत्वेन प्रसक्तान्प्रामरागादींस्तदनन्तरं विवेक्तुं प्रतिजानीते—अथ ग्रन्थेनेति । संक्षिप्तप्रसन्नपदपङ्क्तिना ; प्रसन्नानि शीघ्रं स्वाभिधेयबोधकानि च तानि पदानि ; तेषां प्रसन्नपदानां पङ्क्तयो वाक्यानि ; संक्षिप्ताः संकुचिताः प्रसन्नपदपङ्क्तयो यस्मिन्निति । अयमर्थः- बृहद्देश्यादिषु ग्रन्थान्तरेषु यत्र “ षड्जो न्यासः, षड्जोंऽशकः इत्यादिभिर्बहुभिर्वाक्यैर्योऽर्थोऽभिहितः, स एवात्र " षड्जग्रहांशन्यास – ” इत्यादिभिः प्रसन्नैः कतिपयैर्वाक्यैरभिधीयत इति । अथवा, संक्षिप्तानीति पदविशेषणम् ; तेषां पङ्क्तयो यस्मिन्निति व्यधिकरणो बहुव्रीहिः । पदानां Scanned by Gitarth Ganga Research Institute ""
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy