SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ १८१ तृतीयः प्रकीर्णकाध्यायः स्वरः स्यायेषु ते स्थायाः प्रोक्ता निर्जवनान्विताः। गाढः शैथिल्यनिर्मुक्तः स एव मृदुतान्वितः॥१४६॥ भवेल्ललितगाढस्तु ललितस्तु विलासवान् । मार्दवाघूर्णितः प्रोक्तो लुलितः स्यात् समः पुनः ॥ हीनो वेगविलम्बाभ्यां यथार्थः कोमलो मतः। निकृतेः करुणायाश्च स्थायाः सार्थकनामानः । येषु स्थायेषु निकृतिरन्यूनाधिकत्वं, ते निकृतेः । ये करुणामुत्पादयन्ति, ते करुणायाः । करुणानिकृत्योलक्षणमुक्तं पार्श्वदेवेन "करुणारागयोगेन चिन्तादीनतयाथवा । करुणाकाकुसंयुक्ताः स्थायास्ते करुणाभिधाः ॥" "स्थायं विविधमादाय बलात् संस्थाप्यते पुनः । अन्यूनाधिकता तज्ज्ञैनिकृतिः परिगीयते ॥" इति । अनेकभङ्गियुक्ता: स्थायाः विविधत्वसंबन्धिनः । ये तु गात्रविशेषे नियताः प्रतिगात्रमन्यथोत्पद्यन्ते, ते गात्रसंबन्धिनः । ननु क्षेत्रकाकुसंबन्धिभ्य एतेषां को भेद: ? उच्यते-क्षेत्रकाकुः प्रतिदेहं छायामात्रम् ; गात्रजेषु तु स्थायस्वरूपमेव प्रतिदेहं भिद्यत इति । तीव्रतरमतितारं ध्वनिं कृत्वा येषूपशान्तिः शीघ्रं मन्द्रोपसर्पणं, ते उपशमसंबन्धिनः । काण्डारणा लोके प्रसिद्धा; तदुद्भवाः स्थाया: काण्डारणासंबन्धिनः । लोके स्तम्भादिषु पद्माद्याकारोत्किरणं काण्डारणेत्युच्यते । सरलः अवक्र: । कोमलः सुकुमारः । रक्तो रागवान् । क्रमेण सूक्ष्मत्वं प्रापित: स्वरो येषु, ते निर्जवनसंबन्धिनः । शैथिल्येन हीनो यः प्रचुरस्वरः स्थायः, स गाढ इत्युच्यते । स एव गाढः किंचिन्मार्दवसंयुक्तो ललितगाढ इत्युच्यते । विलासश्चातुर्य यस्मिन् श्रूयते, स ललितः । मार्दवात् घूर्णितो यो डोलायुक्तः, स लुलितः। यस्तु वेगविलम्बरहितो मध्यमानेन गीयते, स समः । कोमलः Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy