SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ १७६ संगीतरत्नाकरः स्वरान्तरस्य रागे स्यात् स्वरकाकुरसौ मता। या रागस्य निजच्छाया रागकाकुं तु तां विदुः॥१२२॥ सा त्वन्यरागकाकुयर्या रागे रागान्तराश्रया। सा देशकाकुर्या रागे भवेद्देशस्वभावतः ॥ १२३ ॥ शरीरं क्षेत्रमित्युक्तं प्रतिक्षेत्रं निसर्गतः। रागे नानाविधा काकुः क्षेत्रकाकुरिति स्मृता ॥ १२४॥ वीणावंशादियन्त्रोत्था यन्त्रकाकुः सतां मता। अन्यच्छायाप्रवृत्तौ ये छायान्तरमुपाश्रिताः ॥ १२५ ॥ छायायास्ते मताः स्थाया गीतविद्याविशारदैः। मध्ये मध्ये स्वरान् भूरीलँङ्घयन् स्वरलचितः ॥ १२६ ।। तिर्यमूर्ध्वमधस्ताच प्रेरितः प्रेरितैः स्वरैः। स्वरः पूणेश्रुतिस्तारे तीक्ष्णवत्तीक्ष्ण उच्यते ॥ १२७ ॥ रागस्यातिशयाधानं प्रयत्नाद्भजनं मतम् । तद्युक्ता भजनस्य स्युः स्थापनायास्तु ते मताः ॥१२८।। स्थापयित्वा स्थापयित्वा येषां प्रतिपदं कृतिः। सविलासास्ति गीतस्य मत्तमातङ्गवद्गतिः ॥ १२९ ।। तयुक्तास्तु गतेः स्थायाः स्निग्धो माधुर्यमांसलः । बहुलो येषु नादः स्यात्ते नादस्य प्रकीर्तिताः ॥ १३० ।। अतिदीर्घप्रयोगाः स्युः स्थाया ये ते ध्वनेर्मताः। युक्ताः कोमलया कान्त्या छः स्थाया निरूपिताः॥ बहुत्वेन वा स्वरान्तरसंश्रया छाया स्वरान्तरस्य यदि स्यात् , आपाततः श्रवणसाम्येन कृता भवेत् , असौ स्वरकाकुरिति मता। यथा हि चतु:श्रुतिकस्य षड्जस्य निषादकर्तृकाक्रमणेन द्विश्रुतित्वे सति श्रुतिन्यूनत्वेन निषादवत् प्रतीतिः; यथा च Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy