SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ १७४ संगीतरत्नाखरः स्थायभेदलक्षणानि (a) तत्र प्रसिद्धस्थायाः मुंक्तशब्दप्रतिग्राह्याः स्थायाःशब्दस्य कीर्तिताः॥११२॥ ढालो मुक्ताफलस्येव चलनं लुठनात्मकम् । स येषु ते स्युर्दालस्य नमनं त्वतिकोमलम् ॥ ११३ ॥ स्थायानां लक्षणमुच्यते । किमर्थमिदमुक्तम् ? गायकानां स्थाया वागा इति प्रसिद्धेः । तत्र कथं वागानां लक्षणं नोक्तमिति शङ्कां निवारयितुं गमका एव वागा इत्युक्तम् । स्थायप्रसङ्गात् वागानां गमकानामपि केपांचिलक्षणं वच्मि कथयामि। स्थायान् विभजते-ते चेति । ते च स्थायाः शब्दस्य शब्दसंबन्धिनः, ढालो वक्ष्यमाणलक्षणः तत्संबन्धिनः, लवनीसंबन्धिनः, वहनिसंबन्धिनः, वाद्यशब्दसंबन्धिनः, यन्त्रसंबन्धिनः, छायासंबन्धिनः, स्वरलवितादयस्त्रयश्चेत्यसंकीर्णलक्षणा दश । गुणजनितभेदान् संकीर्णान् स्थायान् विभजते-भजनस्येति । भजनसंबन्धिनः, स्थापनासंबन्धिनः, गतिसंबन्धिनः, नादसंबन्धिनः, ध्वनिसंबन्धिनः, छविसंबन्धिनः, रक्तिसंबन्धिनः, द्रुतसंबन्धिनः, भृतसंबन्धिनः, अंशसंबन्धिन:, अवधानसंबन्धिनः, अपस्थानसंबन्धिनः, निकृतिसंबन्धिनः, करुणासंबन्धिनः, विविधत्वं भङ्गी तत्संबन्धिनः, गात्रसंबन्धिनः, उपशमसंबन्धिनः, काण्डारणासंबन्धिन:, निर्जवनसंबन्धिनः, गाढललितगाढादयश्चापेक्षितान्ता द्वादश-तत्संबन्धिनः, घोषसंबन्धिनः, स्वरसंबन्धिनश्चेति त्रयस्त्रिंशद्गुणजनितभेदाः स्थायाः । अन्यान् विंशतिमसंकीर्णान् विभजतेवहाक्षराडम्बरयोरिति । षष्ठयन्तैः सह तत्संबन्धिन इति प्रथमान्ताः स्थाया एव । अन्यान् संकीर्णान् त्रयस्त्रिंशतं स्थायान् विभजते-प्रकृतिस्थस्येत्यादिना । एवं सर्वे स्थाया मिलिता: षण्णवतिः ॥ ९७-११२ ॥ (क०) अथैतेषां क्रमेण लक्षणान्याह-मुक्तशब्दप्रतिग्राह्या इत्यादिना । मुक्तश्चासौ शब्दश्चेति मुक्तशब्दः । प्रतिग्रहीतुं योम्याः प्रतिग्राह्याः । मुक्तशब्देन प्रतिग्राह्याः । अयमर्थः--पूर्वस्थायो यस्मिन् ध्वनौ मुच्यते, उत्तरस्थायो चक्रवालरीत्या तत्रैव प्रतिगृह्यते चेत्, तदा शब्दस्थाया इति 1युक्तशब्देति सुधाकरसंमतः पाठः। Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy