SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ १७२ संगीतरत्नाकरः ते च शब्दस्य ढालस्य लवन्या वहनेरपि । वाद्यशब्दस्य यन्त्रस्य छायायाः स्वरलजितः ॥ ९९॥ प्रेरितस्तीक्ष्ण इत्युक्ता व्यक्तासंकीर्णलक्षणाः।। भजनस्य स्थापनाया गते दध्वनिच्छवेः ॥ १० ॥ रक्तेर्दुतस्य शब्दस्य भृतस्यांशावधानयोः। अपस्थानस्य निकृतेः करुणाविविधत्वयोः ॥ १०१॥ गात्रोपशमयोः काण्डारणानिर्जवनान्वितो। गाढो ललितगाढश्च ललितो लुलितः समः ॥ १०२॥ कोमलः प्रसृतः स्निग्धचोक्षोचितसुदेशिकाः। अपेक्षितश्च घोषश्च स्वरस्यैते प्रसिद्धितः ॥ १०३ ।। स्थायानां गुणभेदेन व्यपदेशा निरूपिताः। वहाक्षराडम्बरयोरुल्लासिततरङ्गितौ ॥ १०४ ॥ प्रलम्बितोऽवस्खलितस्त्रोटितः संप्रविष्टकः। उत्प्रविष्टो निःसरणो भ्रामितो दीर्घकम्पितः ॥१०५॥ प्रतिग्राह्योल्लासितश्च स्यादलम्बविलम्बकः । स्यात् नोटितप्रतीष्टोऽपि प्रमृताकुश्चितःस्थिरः॥१०६॥ स्थायुकः क्षिप्तसूक्ष्मान्तावित्यसंकीर्णलक्षणाः । ते च शब्दस्येत्यादिना । अत्र शब्दस्येत्यादिकया षष्ठ्या प्रतिसंबन्धिनामुद्देशेन तत्संबन्धिनः स्थाया उद्दिष्टा वेदितव्याः । व्यक्तासंकीर्णलक्षणा इति । व्यक्ताः प्रसिद्धाश्चासंकीर्णानि विविक्तानि लक्षणानि स्वरूपाणि येषां त इति तथोक्ताः । गुणभेदेन व्यपदेशा इति । भजनस्येत्यादिनोद्दिष्टानां स्थायानां गुणभेदेन रागातिशयाधानरूपभजनादिगुणानां भेदेन प्रसिद्धितो गीतज्ञप्रसिद्धहेतोळपदेशाः संज्ञा निरूपिता इत्यन्वितोऽर्थः । भजनस्थायादीनां Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy