SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ १६९ तृतीयः प्रकीर्णकाध्यायः गमकभेदाः खरस्य कम्पो गमकः श्रोतृचित्तसुखावहः । तस्य भेदास्तु तिरिपः स्फुरितः कम्पितस्तथा ।। ८७ ।। लीन आन्दोलितवलिविभिन्नकुरुलाहताः। उल्लासितः प्लावितश्च हुंफितो मुद्रितस्तथा ॥ ८८ ।। नामितो मिश्रितः पञ्चदशैते परिकीर्तिताः। लघिष्ठडमरुध्वानकम्पानुकृतिसुन्दरः॥ ८९ ।। द्रुततुर्यांशवेगेन तिरिपः परिकीर्तितः। वेगे द्रुततृतीयांशसंमिते स्फुरितो मतः ॥ ९० ।। दुतार्धमानवेगेन कम्पितं गमकं विदुः। लीनस्तु द्रुतवेगेनान्दोलितो लघुवेगतः ॥ ९१ ॥ वलिविविधवक्रत्वयुक्तवेगवशाद्भवेत् । विभिन्नस्तु त्रिषु स्थानेष्वविश्रान्तघनस्वरः ॥ ९२ ॥ कुरुलो वलिरेव स्याद् ग्रन्थिलः कण्ठकोमलः । खरमग्रिममाहत्य निवृत्तस्त्वाहतो मतः ।। ९३ ॥ उल्लासितः स तु प्रोक्तो यः स्वरानुत्तरोत्तरान् । क्रमाद्गच्छेत् प्लावितस्तु प्लुतमानेन कम्पनम् ।। ९४ ॥ हृदयंगमहुंकारगर्भितो हुंफितो भवेत् । कडालमधुरं चैव ततो मधुरसौबलम् । कडालसौबलं चैव शारीरं त्रयमिश्रकम् ॥ ___ एवं चतुर्विधं ज्ञेयं शारीरं बहुभङ्गिकम् |" इति ॥ ८२-८६ ॥ (क०) अथ गमकान् सामान्यविशेषाभ्यां लक्षयति-स्वरस्य कम्प इत्यादिना । श्रोतृचित्तमुखावह इत्यनेन विशिष्टस्यैव कम्पस्य गमकत्वमिष्टम् । अन्यथा विपरीतस्यापि तस्य गमकत्वं स्यात् । तिरिपादीनां लक्षणानि निगद Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy