SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ १६५ तृतीयः प्रकीर्णकाध्यायः त्रिस्थानो मनसो यस्तु सुखदः स सुखावहः ॥७२॥ श्रीशंकरप्रियेणोक्तः प्रचुरस्थूलतायुतः। कोमलोऽन्वर्थनामैव कोकिलाध्वनिवन्मतः ॥ ७३ ।। गाढस्तु प्रबलो दूरश्रवणाच्छ्रावको मतः । करुणः श्रोतृचित्तस्य करुणारसदीपकः ।। ७४ ।। दूरश्रवणयोग्यस्तु घनोऽन्तःसारतायुतः। अरूक्षो दूरसंश्राव्यो बुधैः लिग्धो ध्वनिः स्मृतः।।७५॥ लक्षणस्तु तैलधारावदच्छिद्रो धीरसंमतः। अनुरक्तेस्तु जनको रक्तिमानभिधीयते ॥ ७६ ॥ धातुर्विमलकण्ठत्वाद्यः प्राज्ञैरुपलक्ष्यते । उज्ज्वलोऽयमिति प्रोक्तश्छविमानिति स ध्वनिः॥७॥ इति शब्दगुणाः। शब्ददोषाः रूक्षस्फुटितनिःसारकाकोलीकेटिकेणयः। कृशो भग्न इति प्रोक्ता दुष्टस्याष्टौ भिदा ध्वनेः ॥७॥ रूक्षः लिग्धत्वनिर्मुक्तः स्फुटितोऽन्वर्थनामकः। एरण्डकाण्डनिःसारो निःसार इति कीर्तितः ॥ ७९ ॥ काकोलिकाख्यः काकोलकुलनि?षनिष्ठुरः। स्थानत्रयव्याप्तियुक्तो निर्गुणः केटिरुच्यते ॥ ८०॥ कृच्छ्रोन्मीलन्मन्द्रतारः केणिरित्यभिधीयते । अतिसूक्ष्मः कृशो भग्नः खरोष्ट्रध्वनिनीरसः ॥ ८१ ॥ __इति शब्ददोषाः। तासां चेहालः स्वतः प्रवर्तत इत्यर्थः । अथवा आकण्ठकुण्ठनमिति कण्ठस्य मध्यमस्थानस्य आ ईषत् कुण्ठनं संकोचकरणम् । एवमपि ध्वनिः पूर्वोक्तरूपो भवति । Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy