________________
तृतीयः प्रकीर्णकाध्यायः उत्तमोत्तम इत्युक्तः सुराणामिव शंकरः ॥ ४७ ॥ नाराटखाहुलोन्मिश्र उत्तमः खाहुलः पुनः। बोम्बयुक्तो मध्यमः स्याद्वोम्बो नाराटसंयुतः॥४८॥ शब्दानामधमः प्रोक्तः श्रीमत्मोढलसूनुना । निःसारतारूक्षताभ्यां युक्तः सर्वाधमो मतः॥४९॥ भवन्ति बहवो भेदा नानातगुणमिश्रणात् । कश्चित् स्यान्मधुरलिग्धघनोऽन्यः स्निग्धकोमलः॥ घनोऽपरस्तु मधुरमृदुत्रिस्थानकोऽन्यकः। मृदुत्रिस्थानगम्भीरोऽपरः स्निग्धो मृदुर्घनः ॥५१॥ त्रिस्थानोऽन्यस्तु मधुरमृदुत्रिस्थानको घनः । अन्यस्तु मधुरस्निग्धमृदुत्रिस्थानकोऽपरः ॥ ५२ ॥ मधुरलिग्धगम्भीरघनत्रिस्थानकोऽपरः। लिग्धकोमलगम्भीरघनत्रिस्थानलीनकः ॥५३॥
अत्युत्तम इत्याह-- उत्तमोत्तम इति । उत्तमं मध्यममधमं च मित्रं कथयतिनाराट इति | खाहुलनाराटलक्षणयोः संकर उत्तमो मिश्रभेदः । खाहुलबोम्बकलक्षणसंयोगे मध्यमः । बोम्बकनाराटलक्षणसंयोगे अधमः शब्दः ; रक्षकत्वा-, भावात् । अत्यधर्म ध्वनिमाह-निःसारतेति । मिश्रस्य गुणसंमिश्रणात् खाहुले बहवो भेदा भवन्तीत्याह-भवन्तीति । कश्चित् माधुर्यस्नेहघनत्वयुक्तः । कश्चित् स्नेहकोमलताघनत्वयुक्तः । कश्चित् माधुर्यमार्दवत्रिस्थानव्याप्तियुक्तः । कश्चित् मार्दवस्थानत्रयव्याप्तिगाम्भीर्ययुक्त: । कश्चित् स्नेहमार्दवघनत्वत्रिस्थानव्याप्तियुक्तः । कश्चित् माधुर्यमार्दवत्रिस्थानव्याप्तिघनत्वयुक्तः । अपरस्तु माधुर्यस्नेहमार्दवस्थानत्रयव्याप्तियुक्तः । कश्चित् माधुर्यस्नेहगाम्भीर्यवनत्वत्रिस्थानव्याप्तियुक्त: । कश्चित् स्नेहकोमलतागाम्भीर्यघनत्वत्रिस्थानव्याप्तिलीनतायुक्तः । अन्यस्तु
21
Scanned by Gitarth Ganga Research Institute