________________
२३२
संगीतरत्नाकरः
[जाति
अथ पढ्जमध्यमा
अंशाः सप्त स्वराः षड्जमध्यमायां मिथश्च ते ॥ ८५ ॥ संगच्छन्ते निरल्पो शाद्गादृते वादितां विना । निलोपनिगलोपाभ्यां षाडवौडुविते मते ॥ ८६ ॥ पाडवौडुवयोः स्यातां द्विश्रुती तु विरोधिनौ । गीतितालकलाऽऽदीनि पाड्जीवन्मूर्च्छना पुनः ।। ८७ ।। मध्यमादिरिह ज्ञेया पूर्वावद्विनियोजनम् ।
(सु०) एतस्याः कलायामभिधेयनियमं कथयति-शैलेऽक्षराभ्यामिति । प्रथमकला शिववाचकाक्षरद्वयेन कर्तव्या। द्वितीया गणेशवाचकपदेन (?) । तृतीया कला शिवगणेशवाचकपदाक्षरपञ्चकेन । सप्तमी त्वधिकाक्षरैः । अष्टमी मुखेन्दुना । षड्भिरक्षरैनवमी ॥ ८४, ८४ ॥
(क०) अंशाः सप्त स्वरा इति । निरल्पः, पूर्णावस्थायां निषादो ऽल्पः कार्यः । अंशादगाहत इति । तस्यामप्यवस्थायां यदा गांधारो इंशो भवति तदा निषादस्य तत्संवादित्वेनाल्पत्वं नेष्टमिति भावः । वादितां विनेति । स्वस्य वादित्वे सुतरामल्पत्वाभाव इत्यर्थः ॥ द्विश्रुती तु निषादगांधारी; अंशीभूतौ त्वित्यर्थाद्गम्यते ; पाडवौडवयोर्विरोधिनौ स्याताम् , निलोपेन निगलोपेन च पाडवौडुवयोर्विहितत्वात् , स्वरयोरेवांशत्वं लोप्यत्वमिति च धर्मयोर्विरोधात् । तदा षाडवौडवे न भवत इति भावः । तेन निगयोरंशयोः पूर्णताया एव नियतत्वादस्यां षाडवांशाः पञ्चौडवांशा अपि त एव पञ्च संपूर्णोशा: सप्तेति मतङ्गोक्ताः सप्तदशांशा द्रष्टव्याः ॥ गीतितालकलाऽऽदीनि पाड्जीवदिति । गीतितालकलाऽऽदीनि, गीतयो मागधीसंभावितापृथुलास्तिस्रः, तालो ऽप्येककलद्विकलभेदस्त्रिविधः पञ्चपाणिः, कला अष्टलध्वात्मिका द्वादश, आदिशब्देन चित्रवृत्तिदक्षिणास्त्रयो मार्गा
Scanned by Gitarth Ganga Research Institute