SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ २२८ संगीतानाकरः जाति अथ षड्जोदीच्यवा अंशाः समनिधाः षड्जोदीच्यवायां प्रकीर्तिताः । मिथश्च संगतास्ते स्युर्मन्द्रगांधारभूरिता ।। ८१ ॥ पड्जर्षभौ भूरितारौ रिलोपात्पाडवं मतम् ॥ औडुवं रिपलोपेन धैवते ऽशे न पाडवम् ।। ८२ ॥ पाड्जीवद्गीततालादि गांधारादिश्च मूर्च्छना। द्वितीये प्रेक्षणे गाने ध्रुवायां विनियोजनम् ॥ ८३ ।। (क०) अंशाः समनिधा इति । मिथश्च संगतास्ते स्युः ; ते समनिधा मिथः परस्परं संगताश्च रक्तिवशाद्यथायोगं संबद्धाश्च भवेयुः । मन्द्रगांधारभूरिता, मन्द्रस्थानस्थितस्य गांधारस्यानंशस्यापि भूरिता बाहुल्यम् 'षड्जश्च ऋषभश्चैव गांधारश्च बली भवेत्' इति मुनिवचनाद्भवति । तेन स्थानान्तरस्थितस्य तम्य तन्नेत्युक्तं भवति । षड्जर्षभौ भूरितारौ भूरि तारस्थानं ययोस्तौ ; तारस्थयोर्बाहुल्यं कर्तव्यमित्यर्थः । तत्रर्षभस्य च षाडवौडुवकारित्वेन ‘पूर्णावस्थायामृषभपञ्चमयोरल्पत्वम्' इति मतङ्गवचनं मन्द्रमध्यस्थर्षभविषयम् । 'ऋषभश्च बली भवेत्' इति मुनिवचनं तु तारस्थर्षभविषयमिति व्यवस्थापनीयम् । तत्र षड्जस्यांशत्वेन सिद्धे ऽपि बहुत्वे षड्जस्येति मुनिवचनान्मन्द्रमध्यस्थापेक्षया तारस्थस्यातिशयितत्वेन बहुत्वं षड्जर्षभावित्यनेन विधीयत इत्यवगन्तव्यम् । धैवते शे न पाडवमिति । ऋषभस्य धैवतसंवादित्वेनांशसंवादिलोपस्यानिष्टत्वात । ननु तस्मिन्नेवांशे रिपलोपेनौडुवाभ्युपगमः कथमिति चेत ; उच्यते-रिपयोलोंपेनौडुवत्वे पाडवकारित्वं पञ्चम एव पर्यवसितमिति तस्य संवादित्वान्न विरोधः । पाड्जीवदित्यादि गतार्थम् ॥ ८१-८३ ॥ Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy