________________
.१५०
5
10
15
20
25
नृ० २० को०- उल्लास ३, परीक्षण १
कुर्यात्तदा प्रविज्ञेयं बुधैः स्वस्तिकरेचितम् । वृत्ताभिनयने तच्च प्रहर्षादौ नियोजितम् ॥ ॥ इति स्वस्तिकरेचितम् ॥ १६ ॥
*
मण्डलं स्थानकं कृत्वा चतुरस्रं समाश्रितः । स्कन्धशीर्षे करं नीत्वा दक्षमुद्वेष्टनाञ्चितम् ॥ पतन्तेत्पतनाविष्टकनिष्ठाङ्गुलित्रयम् । अलपद्मीकृत्य तथोद्धतेि च दक्षिणे ॥ आविद्धवक्रतां नीते चतुरस्त्रीकृते ततः । अनेनैव यथा वामपाङ्गी यत्र तद्विदा ॥ क्रियते तत्र विज्ञेयं करणं तु निकुट्टितम् । आत्मसंभावनाख्यानपरे वाक्ये प्रकीर्तितम् ॥
॥ इति निकुट्टम् ॥ १७ ॥
*
*
तदेवार्धनिकुहं स्यादेकेनाङ्गेन निर्मितम् । तत्रैवार्था ( ? ) नियुज्येताप (? प्र ) रूढबचनोक्तिके ॥ ॥ इत्यर्धनिकुट्टम् ॥ १८ ॥ विधाय भ्रम पार्श्वे मण्डलस्थानमाश्रितः । छिन्नां कीं विधायैकां बाहुशीर्षे च पल्लवम् ॥ करं कृत्वाङ्गान्तरेण यत्रैवं क्रियते पुनः । एवं त्रिचतुरावृत्त्या कटीछिन्नं तु विस्मये ॥ ॥ इति कटीछिन्नम् ॥ १९ ॥
*
वैष्णवस्थानके स्थित्वा चारीमाक्षिप्तिकां चरन् । अपक्रान्तां ततः कृत्वा स्वस्तिकं च करद्वये ॥ दक्षिणो नाभिदेशस्थः खटकामुखसंज्ञकः । अर्धचन्द्रस्तथा कव्यां कृतं पार्श्वे च सन्नतम् ॥ अन्यदुद्वाहितं यत्रावृत्तयोगान्तरैस्तथा । तत् कटीसममादिष्टं जर्जरस्याभिमन्त्रणे ॥
॥ इति कटीसमम् ॥ २० ॥
*
व्यावर्त्यते करो यस्तु तत्पक्षेऽह्निं बहिः क्षिपेत् । अन्यस्तु चतुरस्रः स्यात् पूर्वोऽथ परिवर्त्यते ॥
[ निकुम्
५६
५७
५८
५९
ဝ
६१
६२
६३
६४
६५
६६
६७