SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ 10 १४६ नृ०र० को०-उल्लास ३, परीक्षण १ [शुद्धकरणानि नूपुरं पादापविद्धं भुजङ्गत्रस्तरेचितम् । .[भुजङ्गाश्चितछिन्ने च भ्रमरं दण्डरेचितम् ।। चतुरं च कटिभ्रान्तं व्यंसितं क्रान्तमित्यपि ॥ वैशाखरेचितं पार्थनिकुटुं चक्रमण्डलम् । ' वृश्चिकं लतावृश्चिकं तथा वृश्चिककुट्टितम् ॥ अथाक्षिप्तं चार्गलं च तथा वृश्चिकरेचितम् । उरोमण्डलमावर्त तथा तलविलासितम् ॥ ललाटतिलकं दोलपादकं कुश्चितं तथा । विवृत्तं विनिवृत्तं च पार्श्वक्रान्तं निशुम्भितम् ॥ विद्युद्भान्तमतिक्रान्तं विक्षिप्तं च विवर्तितम् । गजक्रीडितकं गण्डसूचि स्याद्गरुडप्लुतम् ॥ तलसंस्फोटितं पार्श्वजानु गृध्रावलीनकम् । सूचीविद्धं सूचि चार्धसूची स्यारिणप्लुतम् ॥ परिवृत्तं दण्डपादं मयूरललितं ततः । प्रेडोलितं सन्नतं च सर्पितं करिहस्तकम् ॥ प्रसर्पितमपक्रान्तं नितम्बं स्खलितं ततः। सिंहविक्रीडितं सिंहाकर्षितं चावहित्थकम् ॥ निवेशमेलकाक्रीडमुवृत्तं जनितं तथा।' तलसंघट्टितं विष्णुकान्तं चोपसृतं तथा ॥ लोलितं मदस्खलितं वृषभक्रीडितं ततः। संभ्रान्तमुद्घाटितं च विष्कुम्भं शकटास्यकम् ॥ ऊरूवृत्ताभिधं चैव नागापसर्पितं तथा । गङ्गावतरणं चेत्थमष्टोत्तरमुदीरितम् ॥ करणानां शतं पूर्णमङ्गहारोपयोगिकम् । अन्यानि सन्ति भूयांसि गतिस्थित्यादियोगतः॥ अङ्गानां मेलके तानि खयमूह्यानि पण्डितः । प्रायेण व?न)र्तनारम्भे समौ पादौ लताकरौ । चातुरख्यं शरीरे च विशेषोऽथो यथास्थितः। चारीमध्यर्धिकामेते दक्षिणे चरणेऽग्रगे॥ ...1 AB क्लीडनकम् । 20 तथा । 3 AB करह। 4 A. Natyasastra and dtilo? works such as S. R. give Viskambha; but Monier Williams on the authority of Vopadeva gives विष्कुम्भ. also.
SR No.034222
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1889
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy