________________
मानागतिप्रचारनृत्यम् ] नृ० २० को०-उल्लास ४, परीक्षण ३
यथा यथा भवेद्रक्तिः पश्यतां सचमत्कृतिः। तथा तथा विधातव्यं सङ्गीतमिति सङ्ग्रहः ॥
॥ इति देशीलास्याङ्गानि ॥
[नानागतिप्रचारनृत्यम् ।] 'अथ नानागतिप्रचारनृत्यम् । यथा चाह भगवान् श्रीभरताचार्य:
तत्रोपवहनं कृत्वा भाण्डवाद्यपुरस्कृतम् । यथामार्गरसोपेतं प्रकृतीनां प्रवेशने ॥ ध्रुवायां संप्रवृत्तायां पटे. चैवापकर्षिते । कार्यः प्रवेशः पात्राणां नानार्थरससंभवः॥
रङ्गे विकृष्टे भरतेन कार्यो
गतागतैः पादगतिप्रचारः। यस्रस्त्रिकोणे चतुरस्ररङ्गे
गतिप्रचारश्चतुरस्र एव ॥ ऋषय ऊचुः
यदा मनुष्या राजानस्तेषां देव गतिः कथम् । अथोच्यते कथं नेया गती राज्ञां भविष्यति ॥ इह प्रकृतयो दिव्या तथा च दिव्यमानुषी। मानुषी चेति विज्ञेया नाव्यवृत्तक्रियां प्रति ॥ देवानां प्रकृतिर्दिव्या राज्ञां वै दिव्यमानुषी। या त्वन्या लोकविदिता मानुषी सा प्रकीर्तिता॥ देवांशजास्तु राजानो वेदाध्याये सुकीर्तितम् । एवं देवानुकरणे दोषो यत्र न विद्यते ॥ दूतीदर्शितमार्गस्तु प्रविशेद्रङ्गमण्डलम् । तस्याद्य ( स्माच) प्रकृति ज्ञात्वा भावं कार्य च तत्त्वतः। गतिप्रचारं विभजेन्नानावस्थान्तरात्मकम् ॥ 1 ABO अथ देशीनृत्यभेदाः। A has the same reading but there are marks of delition on it. 2 ABO ताण्ड of भाण्डवायपुरस्कृतम् ना. शा. अ. १२ श्लो. २(G.0. S.). 3 ABC °पेत प्र° of यथामार्गरसोपेतं ibid. 4 ABO सुरतेन . कायो। of रङ्गे विकृष्टे भरतेन कार्यो । ना. शा. अ. १२ श्लो. २० (G. 0. S.). 5 ABO यथा । of अ. १२ श्लो. २५ । 6 ABC वेद । of यदा मनुष्या राजानस्तेषां देवगतिः कथम् । ना. शा. अ. १२ श्लो. २५ (G. O. S.). 7 ना. शा. नैषा। 8 inserted from ना. शा. अ. १२ श्लो. २५-२६. नि. सा. ५ तस्मात्तु । ना. शा. अ. १२ श्लो. १४२ (G.0. S.).
२७ नृ० रन.
९२25