SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ वागण्यः] नृ० २० को०-उल्लास ४, परीक्षण २ वार्षगण्यविषयोऽपि दृश्यतेऽप्येवमेव फलकस्य संभ्रमः। पृष्ठतो निगदितस्त्विहाधिकः स्कन्धदेश अथ वक्षसि स्फुटम् ॥१० शस्त्रहस्तविषयं तथा किलोद्वेष्टनं निगदितं तथा पुनः। हृत्पदेशविषयं च तद्विदा शस्त्रपातनमिहोदरीकृतम् ॥ ११ ॥ इति वार्षगण्यः ॥ [३॥] भारतेन गदितस्तु कैशिकः शस्त्रपातनविधिस्तु मूर्द्धनि । ॥ इति कैशिकः ॥[४॥] सौष्ठवान्विततनुःसुशिक्षितो न्यायवर्गममुमाश्रितो नटः ॥१२ शक्तितोमरशरासनादिकान्यायुधान्यपि समाचरेत् सुखम् ।। सौष्ठवं वरमुशन्ति तद्विदो येन तेन हि विना कृताः परम् ॥१३ 10 युद्धकर्मणि च नर्त्तनेऽपि वा नैव भान्ति निखिलाः प्रविचाराः। न प्रहारविधिरत्र वास्तवः संज्ञयैव निखिलो विधीयते ॥ १४ तं प्रहारमथवान दर्श[ये]दैन्द्रजालिकमथात्र मायया। एते न्यायाः प्रयोक्तव्याचारीभिः शस्त्रमोक्षणे ॥ ॥ इति न्यायलक्षणम् ॥ [पेरणीलक्षणम् ।] श्वेतचन्दनकर्पूरभमायक्तकलेवरः। शिखावान् मुण्डितशिरा लसत्पुष्पावतंसकः ॥ कणर्घरिकाजालजङ्घाजङ्घालविभ्रमः । लयतालकलाभिज्ञः पञ्चाङ्गज्ञानपण्डितः॥ जितश्रमोऽश्लथश्लिष्टसंधिस्ताण्डवपण्डितः। दक्षः कलासु सर्वासु सभाजनमनोहरः॥ सुरेखो नृत्यशास्त्रज्ञश्चण्डः शारीरपेशलः। सभावरससंयुक्तं यो नृत्यते(?ति) स पेरणी ॥ घर्घरो विषमं गीतं कविचारस्तथैव च । भावाश्रयश्च व्याचष्ट पञ्चाङ्गानि पोत्तमः ॥ तत्र घर्घरिका वाद्ये वहनिर्घर्घरो मतः। तस्य भेदाः पडेवात्र पडिवाडस्तदादिमः॥ 1 ABC जिताश्रमी। 15 mawwww
SR No.034222
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1889
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy