SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ 提 नृ० १० को ० - उल्लास ३, परीक्षण ३ उच्चैर्यदीयकरणानि मनोहराणि तत्तत्खदेशललनालपमे ( ? ने) षु चित्रम् । तेन त्रिनेत्रपरितोषकरेण राज्ञा देशप्रसिद्धकरणानि विनिर्मितानि ॥ ॥ इति भ्रमर्यः ॥ १३ ॥ तृतीयोल्लासे तृतीयं परीक्षणम् । किमङ्गहारस्तव नागराजः किं नागराजस्य हतिस्तबाङ्गे । इत्थं ह सोक्तो नगराजकन्यया ननर्त देवः सकलाङ्गहारकैः ॥ १ * २३ [ अङ्गहारा: । ] न व्यग्रैः करणैर्दृष्टमदृष्टं वा प्रसाध्यते । अतस्तद्वयसंपत्त्यै तत्समूहं ब्रुवेऽधुना ॥ च्छिरः प्रमुखाङ्गानां प्रदेशमुचितं प्रति । प्रापणं सविलासं तदङ्गहारोऽभिधीयते ॥ अङ्गप्रयोगयोगेन ये हारा हरनिर्मिताः । मध्यस्थपदलोपेन तेऽङ्गहाराः स्मृता बुधैः ॥ 'औचित्यान् मेलनेऽङ्गानां प्रयोगः क्रमपेशलः । करणं कीर्त्यते तज्ज्ञैस्तद्वयं मातृकाः स्मृताः ॥ त्रिभिः कलापकस्तैश्च चतुर्भिः खण्डको मतः । संघातः पश्चभिस्तैश्च संज्ञाभेदा इतीरिताः ॥ तत्समूहविशेषश्चाङ्गहारस्तत्परः स्मृतः । तिसृभिः पञ्चभिर्वा स्यान्नवभिर्वा यथोदितम् ॥ अङ्गहारो मातृकाभिरेकः स्यान्मुनिनोदनात् । करणन्यूनताधिक्यं यत्र नो दूषणाय तत् ॥ मुनिनैव स्वयं सूत्रे विकल्पस्यानुशासनात् । परिभाषाङ्गहाराणां मयैवादौ प्रदर्शिता ॥ अथोद्देशपरं लक्ष्म यथाशास्त्रं प्रदर्श्यते । 1 ABC ऊचित्यानेलने ।
SR No.034222
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1889
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy