SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ [उत्तम ० र० को०-उल्लास ३, परीक्षण १ प्रसार्य पुनरानीतौ हस्तौ पादौ यदा पुनः । गात्रमुत्तचारीकमुद्रुतं तत् प्रकीर्तितम् ॥ __इत्युत्तम् ॥ ९४॥ चारी च जनितां कृत्वा करं कुर्याल्लताभिधम् । अन्यं वक्षास्थितं मुष्टिकरणं जनितं तदा। क्रियारम्भोऽभिनेतव्य एतेन महतां नृणाम् ॥ ॥ इति जनितम् ॥ ९५॥ .. १६७ 10. करौ संघहिततलौ रचयित्वा पताकको । दोलापादां भजेचारी वैष्णवस्थानके स्थितः॥ दक्षिणं कटिदेशस्थं वामं रेचितमाचरेत् । तलसंघटितं तत् स्यादनुकम्पार्थगोचरम् ॥ ॥ इति तलसंघट्टितम् ॥ ९६॥ आकाशाभिमुखो यत्र कुञ्चितश्चरणो व्रजेत् । रेचितौ च करौ विष्णुकान्तं स्यात् क्रमणे हरेः॥ ॥ इति विष्णुकान्तम् ॥ ९७ ॥ विधाय चारीमाक्षिप्तां वामतस्तदनन्तरम् । हस्तं विधाय व्यावृत्तं परिवर्तनकारकम् ॥ अरालतां नयेदेनं नते दक्षिणपार्श्वके । एतचापसृतं ज्ञेयं विनयेनो(? ना)पसर्पणे ॥ ॥ इत्यपसृतम् ॥ ९८॥ 15 वैष्णवे स्थानके पाणिरेको वक्षसि रेचितः। अन्योऽलपल्लवः शीर्ष लोलितं पार्श्वयोर्द्वयोः । विश्राम्यति यदा प्राहुर्लोलितं करणं तदा ॥ ॥ इति लोलितम् ॥ ९९॥ क्रमेण खस्तिकौ पादौ तथैवापसृतौ शिरः । परिवाहितमानीतो दोलौ हस्तौ यदा तदा। मदस्खलितकं प्राहुः प्रयोज्यं मध्यमे प(?मोदे ॥ . . ॥ इति मदस्खलितम् ॥ १०॥ 25
SR No.034222
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1889
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy