SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ * कुचितम्] नु० २० को-उल्लास ३, परीक्षण १ वामपार्थेऽलपद्मः स्यादुत्तानो दक्षिणः करः। यवा तत् कुञ्चितं पादे सव्येऽग्रतलसंचरे। . आनन्दनिर्भरसुरानन्दाभिनयने मतम् ॥ ॥ इति कुञ्चितम् ॥ ५९॥ पादमाक्षिप्तचारीकमाक्षिप्याक्षिप्य हस्तकौ । व्यावृत्तिपरिवृत्तिभ्यां ततो भ्रमरिकाविधौ । रेचितौ चेत् करौ स्यातां विवृत्तमुद्धते गमे ॥ ॥ इति विवृत्तम् ॥ ६० ॥ पाणिंखस्तिकयुक्त्याऽदः सूचीपादेन जायते । निवर्तते विवृत्याथ प्रत्यावृत्याथ पार्श्वतः॥. त्रिकं स्याद्विनतं चारी बद्धा पाणी द्रुतभ्रमौ । यत्र तद्विनिवृत्तं स्यात्तदुद्धतपरिक्रमे ॥ ॥ इति विनिवृत्तम् ॥ ६१ ॥ पार्धाकान्ताहचार्या वै कुर्यात् पादानुगौ करौ । पार्श्वकान्तं तदा यद्वाभिनेयवशगौ करौ। परिक्रमेऽतिरौद्रस्य भीमसेनादिकस्य तत् ॥ ॥ इति पार्श्वक्रान्तम् ॥ ६ ॥ एकस्याङ्के पार्णिभागे समुन्नततरः परम् । कुश्चितश्चेद् द्वितीयः स्यात् खटकाख्यस्य मध्यमा ॥ . वक्राङ्गुली तिलकयेल्ललाटं तनिशुम्भितम् । अथवा हस्तकोऽत्र स्यादृश्चिकोऽत्र महेश्वरः। अभिनेय इति प्राहुर्नृत्यशास्त्रविशारदाः ॥ ॥ इति निशुम्भितम् ॥ ६३ ॥ चतुर्दिकं शिरक्षेत्रे पृष्ठतो भ्रामितं द्रुतम् । भ्रामयेचरणं चेत् स्यात् विद्युद्धान्तं तदाद्भुतम् । एतदप्यौद्धते प्रोक्तं नृत्यविद्भिः परिक्रमे ॥ ॥ इति विद्युद्धान्तम् ॥ ६४ ॥ अतिक्रान्ताख्यचारीकमनिमग्रे प्रसारयेत्। .... चेत् प्रयोगानुगौ हस्तावतिकान्तं तदोच्यते ॥ ॥ इत्यतिक्रान्तम् ॥ ६५ ॥ 15 * 20 - 1 ABO इत्यभिक्रान्तम् ।
SR No.034222
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1889
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy