SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ सृ० २० को ० - उल्लास ३, परीक्षण १ अतिक्रान्तागतं पादं पात्यमानं तु कुश्चयेत् । तदैव हस्तं व्यावर्त्य ततो निष्क्रामयेदथ || आक्षिप्य परिवर्त्तेन कुर्यात्तं खटकामुखम् । वक्षः क्षेत्रे त्वेवमेव कुर्यादङ्गं द्वितीयकम् । इति कान्तमिदं ज्ञेयमुद्धतस्य परिक्रमे ॥ ॥ इति क्रान्तम् ॥ ४४ ॥ ** काल्तम् ] वैशाखं स्थानकं हस्तौ पादौ ग्रीवा (? वां) कटीमपि । रेचयेद्यत्र तद् ज्ञेयं तज्ज्ञैर्वैशाखरेचितम् ॥ ॥ इति वैशाखरेचितम् ॥ ४५ ॥ * पाणी च स्वस्तिकीकृत्य तयोरेकस्तदूर्ध्वतः । मुखपार्श्वनिकुहः स्यादन्योऽधोवदनो भवेत् ॥ निकुट्टितस्तद्वदेव पादो यत्र भवेदिदम् । तत् प्रकाशनसञ्चाराभ्यासे पार्श्वनिकुट्टितम् ॥ ॥ इति पार्श्वनिकुट्टितम् ॥ ४६ ॥ * यत्रातां विधायाथो दोलायां चक्रवद्धमेत् । गात्रमन्तर्गत कृत्वा तत् प्रोक्तं चक्रमण्डलम् । सुरपूजाविधौ कार्य तथोद्धतपरिक्रमे ॥ ॥ इति चक्रमण्डलम् ॥ ४७ ॥ * हस्तौ करिकरौ यत्र पृष्ठे वृश्चिकपुच्छवत् । पादः समुन्नतं पृष्ठं दूरे तद्वृश्चिकं विदुः । व्योमगैरावणादीनां विमाने विनियुज्यते ॥ ॥ इति वृश्चिकम् ॥ ४८ ॥ * वामो लताकरो यत्र चरणो यत्र वृश्चिकः । तल्लतावृश्चिकं नाम गगनोत्पतने स्मृतम् ॥ ॥ इति लतावृश्चिकम् ॥ ४९ ॥ * चरणं वृश्चिकं कृत्वा बाहुशीर्षेऽलपद्मकौ । क्रमाद्यदा निकुव्येते तदा वृश्चिककु हितम् ॥ ॥ इति वृश्चिककुट्टितम् ॥ ५० ॥ * १०३ १०४ १०५ १०६ १०७ १०८ १०९ ११० १११ 10 15 20 25
SR No.034222
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1889
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy