SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ 10 सर्पशिरआदयः] नृ०० को०-उल्लास १, परीक्षण १ 'चिकुरापनयखेदापनये किल संश्रिता।। ...... तर्जकम्पितो; स्यात् सीवने चांशुकस्य च ॥ ......५९३ चलाग्रगा ज्ञात'प्रश्ने किञ्चित् पार्श्वनता भवेत् । ईश्वराभिनये भालदेशगा स्यादधोमुखी ॥ देवेन्द्राभिनये सा स्थात्तिरश्चीनोन्नता भवेत् । परिवेषाभिनयने भ्रामयेन्मण्डलाकृतिम् ॥ तिरश्चीनां तर्जनीं च तथान्यदपि लोकतः । नाट्याचार्योपदेशेन स्वयमूह्यं विपश्चिता ॥ ॥ इति सूचीमुखः ॥ १४ ॥ पताको निम्नमध्यो यः स तु सर्पशिरा भवेत् । अधोगामी सर्पगतावुत्तानो देवतर्पणे ॥ मल्लानां च भुजास्फोटे नियुद्धादिषु कीर्तितः। प्रस्थ(?स्थि) ते परिमाणे वास्फालने करिकुम्भयोः॥ ॥ इति सर्पशिराः॥१५॥ मध्यमामध्यमो यत्र पताकाष्ठको भवेत् । कनिष्ठिका चोर्ध्वगता स भवेच्चतुरः करः॥ अन्ये कनिष्ठिकामीषदनामापृष्ठगां जगुः।। पताकाङ्गुष्ठकं मध्यामूलगं चतुरे करे ॥ नये वदनदेशेऽसौ विनये मणिबन्धयोः। . युतौ विचारे पार्श्वस्थ ऊहापोहे हृदि स्थितः॥ ६०१० उद्वेष्टितयुतः कार्यों लीलायां कैतवे पुनः। स मोक्षप्रेरणे च स्थाच्छनैरूख़तला करः॥ मर्दनाभिनये कार्यो मध्यमाङ्गुष्ठमर्दनः। . चातुर्यवचने त्वेतौ संयुतौ चतुरौ करौ॥ . उत्तानो नयनौपम्ये पद्मपत्रनिरूपणे। मृगकर्णाभिनेये च बालके स्यादधोमुखः॥ विधेयौ खस्तिकाकारौ सुरताभिनये करौ । खल्पार्थाभिनये तद्वद्वर्णकस्यापि सूचने ॥ चतुरश्चतुरैः कार्यः चतुष्ष्वर्थेषु लोकतः । ॥ इति चतुरः ॥१६॥ 15 ६०४ . 1 ABC चिकुरोप। 2 ABO प्रश्नो। 3 ABC लोकता। 4 ABO °स्थाऊ। 5 ABO वैतवे । of कैतवे सं. र. अ.७ श्लो. १६७। 6 ABO लोकता। ७ नृ० रत्न
SR No.034221
Book TitleNrutyaratna Kosh Part 01
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1957
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy