________________
[ च० उल्लासः ]
काव्यप्रकाशः ।
स्वच्छैरच्छकपोलमूलगलितैः पर्यस्तनेत्रोत्पला बाला केवलमेव रोदिति लुठल्लोलालकैरश्रुभिः ॥ ३५ ॥ प्रस्थानं वलयैः कृतं प्रियसखैरत्रैरजस्रं गतं धृत्या न क्षणमासितं व्यवसितं चित्तेन गन्तुं पुरः । यातुं निश्चितचेतसि प्रियतमे सर्वे समं स्थिता गन्तव्ये सति जीवित प्रिय सुहृत्सार्थः किमु त्यज्यते ॥ ३६ ॥ त्वामा लिख्य प्रणयकुपितां धातुरागैः शिलायामात्मानं ते चरणपतितं यावदिच्छामि कर्तुम् । अस्त्रैस्तावन्मुहुरुपचितैर्दृष्टिरालुप्यते मे
क्रूरस्तस्मिन्नपि न सहते संगमं नौ कृतान्तः ॥ ३७ ॥ हास्यादीनां क्रमेणोदाहरणानि -
आकुञ्च्च पाणिमशुचिं मम मूर्ध्नि वेश्या मन्त्राम्भसां प्रतिपदं पृषतैः पवित्रे ।
5
यन्मुनिः -
ईषद्विकसितैर्गण्डैः कटाक्षैः सौष्ठवान्वितैः । अलक्षितद्विजं धीरमुत्तमानां स्मितं भवेत् ॥ आकुचिताक्षिण्डं यत् सस्वनं मधुरं तथा । कालागतं सास्यरागं तद् वै विहसितं भवेत् ॥ अस्थानहसितं यत् तु साश्रुनेत्रं तथैव च । उत्कम्पितांसकशिरस्तच्चापहसितं भवेत् ॥
10
तारस्वरं तिथूकमदात् महारं
हा हा हतोऽहमिति रोदिति विष्णुशर्मा || ३८ ॥ जीवित प्रिय इत्यामन्त्रणपदद्वयं प्रियेति तु सुहृद्विशेषणे ॥ प्रियसखैरिति अत्र विशेषणं न वाच्यम् ॥
'हास्यादीनामिति । वर्णदेशका लव यो वैपरीत्याद् विकृतवेष नर्त नगत्यनुकरणासत्प्रलापविभावो नासौष्ठस्पन्दस्वेदास्यराग पार्श्वग्रहणाद्यनुभावः त्रपावहित्थास्यादिव्यभिचारी हासः स्थायी हास्यः । स चोत्तममध्यमाधमेषु स्मितहसिता- 20 पहसितैरात्मस्थ स्त्रिधा । तथा स्मितादीनां संक्रान्ति जातैर्ह सितापहसिता तिहसितैः यदा परं हासयति तदा परस्थोऽपि ।
15
25