SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ काव्यादर्शनामसंकेतसमेतः [४ च० उल्लासः ] तथा त्वं मुग्धाक्षि विनैव कन्धुलिकया धत्से मनोहारिणी लक्ष्मीमित्यभिधायिनि प्रियतमे तद्वीटिकासंस्पृशि । शय्योपान्तनिविष्टसस्मितसखीनेत्रोत्सवानन्दितो निर्यातः शनकैरलीकवचनोपन्यासमालीजनः ॥३२॥ अपरस्तु अभिलाषविरहेणूंप्रवासशापहेतुक इति पञ्चविधः ॥ क्रमेणोदाहरणानि- ' प्रेमाः प्रणयस्पृशः परिचयादुद्गाढरागोदयास्तास्ता मुग्धशो निसर्गमधुराश्चेष्टा भवेयुर्मयि । यास्वन्तःकरणस्य बाह्यकरणव्यापाररोधी क्षणा.. दाशंसापरिकल्पितास्वपि भवत्यानन्दसान्द्रो लयः ॥३३॥ अन्यत्र व्रजतीति का खलु कथा नाप्यस्य ताहक मुहृद् यो मां नेच्छति नागतश्च हेह हा कोऽयं विधेः प्रक्रमः। इत्यल्पेतरकल्पनाकवलितस्वान्ता निशान्तान्तरे बाला वृत्तविवर्तनव्यतिकरा नाप्नोति निद्रां निशि ॥३४॥ 15 एषा विरहोत्कण्ठिता। सा पत्युः प्रथमेऽपराधसमये सख्योपदेशं विना नो जानाति सविभ्रमानवलनावक्रोक्तिसंसूचनम् । वीटिकाः कञ्चुकग्रथनानि । सस्मिता या सखी सैव नेत्रोत्सवः ॥ अपर इति विपलम्भकारः । सुखास्वादनलोभेन विशेषेण पलभ्यते आत्मात्रेति । 20 द्वयोरप्यन्योन्यं रत्युत्पत्तावपि कुतोऽपि हेतोरणाप्तसमागमोऽभिलाषविप्रलम्भो यथा वत्सराज – रत्नावल्योः । विरहविप्रलम्भस्तु खण्डितया प्रसाद्यमानयापि प्रसादमवजन्त्या, ततः पश्चात् तप्तया विरहोत्कण्ठितया सह । ईष्याविपलम्भस्तु प्रणयखण्डनादिना खण्डितया सह । प्रवासो भिन्नदेशत्वं, तद्विप्रलम्भः प्रोषितमर्तृकयेति विभागः । करुणविप्रलम्भस्तु करुण एव, यथा रतिप्रलापेषु 'हृदये 25 वससीति मस्मिय' इत्यादौ ॥ प्रेमार्दा इत्यनुवादेन परिचयाद् उद्गाढरागोदया भवेयुरिति विधेयम् । लयस्तन्मयत्वम् ॥ निशान्तोऽन्तःपुरम् । सख्युर्भावः सख्यं, तेनोपदेशः ॥
SR No.034218
Book TitleKavya Prakash Part 01
Original Sutra AuthorN/A
AuthorMammatacharya
PublisherRajasthan Prachyavidya Pratishthan
Publication Year1959
Total Pages374
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy