________________
[ १० उल्हास] काव्यप्रकाशः।
वर्णनानिपुणकविकर्म तत्कान्तेव सरसतापादनेनाभिमुखीकृत्य
रामादिवत् वर्तितव्यं न रावणादिवदित्युपदेशं च यथायोमं कवेः प्रधानेभ्यः । यहाह
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च । वंशानुवंशचरितं पुराणं पश्चलक्षणम् ॥ धर्मार्थकाममोक्षाणामुपदेशसमन्वितम् ।
पूर्ववृत्तकथायुक्तमितिहासं प्रचक्षते ॥ रसाङ्केति । रसस्याङ्गिनो योजभूतो व्यञ्जनात्मा व्यापारस्तनिष्ठतया विसदृशम् । यद् भट्टनायक:• शब्दप्राधान्यमाश्रित्य तत्र शास्त्रं पृथग् विदुः।
10 अर्थे तत्त्वेन युक्त तु वदन्त्याख्यानमेतयोः ॥
द्वयोर्गुणत्वे व्यापारप्राधान्ये काव्यगीर्भवेत् ॥ वर्णनानिपुणेति । ‘क वर्ण' इति दर्शनाद् वर्णनाच कविः । यद् नानृषिः कविरित्युक्तमृषिश्च किल दर्शनात् ।
15 विचित्रभावधांशतत्त्वप्रख्या च दर्शनम् ॥ दर्शनाद् वर्णनाचाथ रूढा लोके कविश्रुतिः ॥ तथा हि दर्शने स्वच्छे नित्येऽप्यादिकवेर्मुनेः ।
नोदिता कविता लावद् यावज्जाता न वर्मना ।। - रामवदिति। यथा रामायणादिषु गुणवतो नायकस्योत्कर्षों, दोषवतश्च 20
बैलोक्यविपिनोऽप्युच्छेदस्तथान्यस्यापि इति विधिनिषेधोपदेशं च ॥ अयं भावः। ये खलु राजपुत्रमाया धर्माधुपेयार्थिनो मृदाशयत्वान् क्लेशभोरवय जगव्यापिठ्यवस्थाकारितां प्रतिपयमानावावश्यव्युत्पाद्यास्तेषां कान्तातुल्यस्वेन प्रीतिकारिणः काव्याद् योऽसौ चतुवर्गफलास्वादः पुरुषार्थत्या सर्वशास्त्रप्रयोजनत्वेन प्रसिद्धस्तत्र हृदयानुभवेशेन व्युत्पत्तिराधेया । तदुक्कम् - 25
त एते यौवनोन्मादविशङ्खलविचेष्टिताः। प्रेमवैदग्ध्यशालिन्या प्रेयस्येवामिजातया ॥ हृदयानुप्रवेशेन ललितोपायरञ्जिताः । संमुखा राजपुत्राधा विनीयन्ते प्रयोक्तृभिः ॥
भट्टतोतः - .