________________
काव्यादर्शनामसंकेतसमेतः [१० उल्लासः ] ब्रह्मणो निर्मितिनिर्माणम् । एतद्विलक्षणा तु कविवानिर्मितिरत एव जयति । जयत्यर्थेन च नमस्कार आक्षिप्यत इति तांपत्यस्मि प्रणत इति लभ्यते।
इहाभिधेयं समयोजनमित्याह - काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये। .5 सद्यः परनिवृतये कान्तासंमिततयोपदेशयुजे ॥२॥
कालिदासादीनामिव यशः, श्रीहर्षादे(वकादीनामिव धनं, राजादिगतोचिंताचारपरिज्ञानम्, आदित्यादेर्मयूरादीनामिवानर्थनिवारण सकलप्रयोजनमौलिभूतं समनन्तरमेव रसास्वादनसमुद्भूतं विगलितवेधान्तरमानन्दं प्रभुसंमितशब्दप्रधानवेदादिशास्त्रेभ्यः 10 सुहृत्संमितार्थतात्पर्यवत्पुराणादीतिहासेभ्यश्च शब्दार्थयोर्गुणभा
वेन रसङ्गभूतव्यापारप्रवणतया विलक्षणं यत् काव्यं लोकोत्तरत्यादिस्तुतिवाक्यानि उत्सृज्य सहृदयेन जयतीति कृतम् ॥ यतोऽत्र अनैयत्येन स्तुत्याया उत्कर्षोऽभिप्रेतो यस्याश्च सर्वोत्कर्षेण स्थितिस्तां पति को न नमेस्यतीत्यर्थाच नम्रतापि वक्तुरुक्तैव भवतीत्याह-जयत्यर्थेनेति । कविप्रजाप- 15 तिवाचश्चास्या आधिक्ये नियतीत्यादेरुपमेयोत्कर्षहेतोरुक्तावाक्षिप्ते चौपम्ये व्यतिरेकालंकारो व्यङ्ग्यः । कविभारतीप्रभावख्यापने वक्तुरतितरां रतिरित्यलक्ष्यक्रमः स्थायी भावोऽत्र वाक्ये व्यायः ॥ १॥ .
इहाभिधेयमिति । दोषत्यागेन गुणालंकारसंस्कृतं काव्यममिधेय शास्त्रं चेदमभिधायकं तयोरभिधानाभिधेयलक्षणः संबन्धोऽर्थादुक्तः। प्रयोजनं च 20 सर्वत्र प्रवृत्त्यङ्गम् । यदुक्तम् -
प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते ॥ तदपि दृष्टमदृष्टं चाह – काव्यमिति । राजादीनां हि वर्ण्यमाने व्यवहारे तदङ्गभूतामात्यादिव्यवहारा औचित्येन निबध्यमानाः सकलव्यवहारिहत्तमुपदिशन्ति ।। आनन्दमिति । परब्रह्मास्वादसदृशीं प्रीति करोतीत्यन्वयः ॥ प्रभुसंमितेति । 25 कर्तव्यमित्याज्ञामात्रपरमार्थेभ्यः ॥ सुहृत्संमितेति । अस्येदं वृत्तममुष्मात् कर्मण इत्येवं युक्तियुक्तकर्मफलसंबन्धप्रकटनकारिभ्योऽर्थे तात्पर्य विद्यते येषामित्यर्थ