SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ 1. अ० उल्लासः ] काव्यप्रकाशः । बीजस्योद्घाटनं यत्र दृष्टनष्टमिव कचित् । मुखन्यस्तस्य सर्वत्र तद्वै प्रतिमुखं स्मृतम् ।। कार्यवीजस्योदभेदलाभनाशान्वेषणादयो यत्र स गर्भः ॥ गर्भनिर्भिन्नबीजोऽर्थः क्रोधव्यसनजोऽपि वा। विप्रलम्भकृतो वापि (स) विमर्श इति संज्ञितः ॥ क्रियाफलेन सम्यग्योमो निर्वहणम् । अत्र चाद्भुतो रसः कार्यः। डिमादिषु तु न सर्वे संधयः । एषां चोपक्षेपादीन्यङ्गानि चतुःषष्टिरन्यतो ज्ञेयानि । मुखादिषु च व्याप्रियमाणानां नायकानां मनोवाकायकर्मनिवन्धनाचेष्टाविशेषा मारत्यारभटी कैशिकी सात्वती विमिश्रा चेति पञ्च वृत्तयः, तासु नराश्रया वाकचेष्टा स्त्रीवर्जिता संस्कृतप्राया भरतानामियं भारती । पुस्ताव- 10 पातप्लुतलधितच्छेद्यमायेन्द्रजालक्रोधयुद्धादि यत्र सा आरभटी। श्लक्ष्णनेपथ्या स्त्रीगीतवृत्तयुता कामप्रभवा कैशिकी। त्यागशौर्यायन्त्रिता निःशोकभाषा हर्षोत्कटा सात्वती । एताश्च क्रमाद् धर्मार्थकाममोक्षप्रधानाः । उक्तं च . शृङ्गारे कैशिकी वीरे सात्वत्यारभटी पुनः । रसे रौद्रे सबीभत्से वृत्तिः सर्वत्र भारती ॥ आरभटयादिगुणयुता तु मिश्रा । वेषविन्यासक्रमस्तु प्रवृत्तिः । गेयं तु पेक्ष्यं काव्यं पदार्थामिनयस्वभावं श्रीगदितादि । यदुक्तम् यस्मिन् कुलाङ्गना पत्युः सख्यग्रे वर्णयेद् गुणान् । उपालम्भं च कुरुते गेये श्रीगदितं तु तत् ॥ छन्नानुरागगर्भाभिरुक्तिभिर्यत्र भूपतेः । आवर्यते मनः सा तु मसृणा डोम्बिका मता ॥ हास्यप्राय प्रेरणं तु स्यात् प्रहेलिकयान्वितम् ॥ ऋतुवर्णनसंयुक्तं रामाक्रीडं तु भाष्यते ॥ मण्डलेन तु यद् नृत्तं स्त्रीणां हल्लीसकं तु तत् । एकस्तत्र तु नेता स्याद् गोपस्त्रीणां यथा हरिः ॥ अनेकनर्तकीयोज्यं चित्रताललयान्वितम् । आ चतुःषष्टियुगलाद् रासकं मसणोद्धते ॥ गोष्ठे यत्र विहरतश्चेतिमिह कैटभद्विषः किंचित् । रिष्टासुरप्रमथनप्रभृति तदिच्छन्ति गोष्ठीति ।। 15
SR No.034218
Book TitleKavya Prakash Part 01
Original Sutra AuthorN/A
AuthorMammatacharya
PublisherRajasthan Prachyavidya Pratishthan
Publication Year1959
Total Pages374
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy