________________
१०२
द्वितीया विभक्तिविचारः ।
गम्यते इत्यत्र न शाब्दबोधः चैत्रेण ग्रामो गम्यते न तु स्वात्मा न वा मनुष्य इत्यादौ तत्संसर्गावच्छिन्नप्रतियोगिताक स्तिङर्थ संयोगस्याभाव: स्वात्मनि मनुष्ये च नञा बोध्यते इति निषेधप्रतौत्युपपत्तिः घृतं जुहोति न तु बन्हिमोदनं भुङ्क्ते न तु कण्ठं शत्रुं हन्ति न तु प्राणमित्यादौ यवा यन्ते न तु वहिरोदनोभु ज्यते न तु कष्ट: शत्रुर्हन्यते न तु प्राण इत्यादौ हितीयाकर्माख्यातयोहि संयोगः पार्थिवद्रव्य प्रतियोग ककण्ठसंयोगः प्राणःत्यन्तविभागः फलमर्यः तत्र द्वितीयार्थे वन्हिभेदेन कण्ठभे देन प्राणभेदेनावच्छिन्न समवाया च्छिन्नाधेयत्वेन सम्बन्वेन प्रकृत्यर्थस्य यथाक्रममन्वयः तत्तत्संमर्गावच्छिन्नप्रतियोगिताको वाद्यभावो वह्निसंयोगादौ नञाबोध्यते कमीख्यातार्थस्य वह्निभेदाद्यवच्छिन्नसमवायावच्छिन्नाधिकरणत्वेन सम्वन्धेन प्रथमान्तार्थेऽन्वयः तत्संसर्गावच्छिन्न प्रतियोगिताकः कर्माखातार्थस्याभाव: प्रथमान्तार्थे नञा बोध्यते इत्यादिकं सुधीभिरुहनीयमिति । यदा तु धातुना फलमेवामिधीयते तदोक्तार्थानामितिन्यायाद द्वितीया न भवति कर्मस्यभावको धातुर्भवति तव तिङा फलान्वितमाश्रयत्वयभिधीयते फलाविताश्रयत्ववतः कर्मण: कर्तृत्वमेव तत्र निर्वर्त्यविकार्ययोः कर्मणोः कर्तृत्वे कर्मवह्नावशे यथा चोदनः पच्यते स्वयमेव वंशश्विद्यते स्वयमेवेत्यादौ प्राप्य कर्मणः कर्टत्वे तु न कर्मवद्भावो यथा ग्रामो गच्छतीत्यादो अधिकमुपरिष्टाद्यतोभविष्यतीति प्राचीनमतमप्यनवद्यमिति । श्रारव्या तार्थ भावनायां प्रधानीभूतायामेवका.
Aho! Shrutgyanam
·