________________
मिश्रितप्रकरणम् ४.
( ५१ )
स्वरः प्रदीप्तः कलहं ब्रवीति प्रदेशदीप्तः शकुनस्तु युद्धम् ॥ ब्रवीति यात्रां निजदेशमुज्झन्स्वदेशशायी कथयत्ययात्राम् ३५ ॥ एवंप्रकाराः शकुना नराणां शांताः पुनर्जाप्यफला भवंति ॥ ते भक्षयतोऽशनमिष्टसिद्धिं कुर्वत्यसिद्धिं पुनरुद्विरतः ॥ ३६ ॥ तृणं फलं खादति यः स सौम्यो रौद्रः पुरीषामिषखादको य ॥ शान्तः प्रदीप्तं विदधाति कार्यमन्नाशनः स्यादुभयप्रकारः ३७॥
॥ टीका ॥
र्थः ॥ ३४ ॥ स्वर इति ॥ स्वरः प्रदीप्तः कलहं विग्रहं ब्रवीति कथयति । प्रदेशदीप्तः । अशुभस्थानस्थितः शकुनः युद्धं संग्रामं ब्रवीति । निजदेशं स्वस्थानमुज्झंस्त्यजन् यात्रामन्यत्र गमनं ब्रवीति स्वदेशशायी स्वस्थानं प्रति गच्छन् अयात्रामन्यत्र गमनाभावं कथयति ॥ ३५॥ एवंप्रकारा इति । एवंप्रकाराः पूर्वोक्तप्रकाराः जनानां ये शकुनाः शांता उक्तास्त एव पुनः जाप्यफला इति जाप्यं फलं येषां ते तथा अधमफलाः प्रदीप्ता इत्यर्थः । शांता एव स्थानादिमाहात्म्यादीप्ता भवतीत्यर्थः। यथा जलस्य वह्निसंयोगादौष्ण्यं जायते एतेन स्वारसिकं शकुनानां दीप्तत्वं नास्तीति सूचितम् । अथ चेष्टाविशेषात्फलविशेषं दर्शयन्नाह त इति। शकुना अशनं भक्ष्यं भक्षयतः इष्टसिद्धिं कुर्वन्ति पुनः उद्भिरेतः वमनं कुर्वन्तः असिद्धिं कुर्वन्ति ॥ ३६ ॥ तृणमिति ॥ तृणं फलं वा यः शकुनः खादति स शकुनः सौम्यः शतिः । यः
॥ भाषा ॥
पाषाण लावते मिलें, और प्रदीप्त होय तो अकीर्ति होय ॥ ३४ ॥ स्वर इति || प्रदीप्त स्वर होय तो कलह करावे और प्रदेशदीप्त शकुन होय अर्थात् अशुभस्थानमें स्थित शकुन होय तो संग्राम करावे स्वदेशकूं त्याग कर यात्रा करावे अपनेस्थानकूं पीछो आवतीसमय ये शकुन होय तो घरआये पीछे यात्रा नहीं करावे ॥ ३५ ॥ एवंप्रकारा इति ॥ या प्रकार मनुष्यनकूं जे शांत शकुन कहे हैं तेही फिर शांतशकुनही स्थानादिकनके माहात्म्यसूं अधम फलके देवेवारे प्रदीप्त हो जाय है जैसे जलकूं अग्निके संयोग उष्णता होय हैं तैसेही जाननो और ते शकुन अन्नभक्षण करते हुये होयँ सो मनोरथकी सिद्धि करे और फिर वमन करतो मिले तो कार्य की असिद्धी करे ॥ ३६ ॥ तृणमिति ॥ जो शकुन तृण वा
Aho! Shrutgyanam