SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ प्रतिष्ठितप्रकरणम् १. पूर्वजन्मजनितं पुराविदः कर्म दैवमिति संप्रचक्षते।उद्यमेन तदुपार्जितं तदा दैवमुद्यमवशं न तत्कथम् ॥ २२ ॥ तन्निरूप्य शकुनेन पूरुषः पूर्वजन्मपरिपाकमायतौ ॥ संचरेत्सुचिरमात्मनो हितं चिंतयन्पुरुषकारतत्परः ॥ २३ ॥ वेत्ति मामयमयं न वेत्ति मां मन्यतेऽयमवमन्यतेऽथवा।। यत्नवानयमुपेक्षते स्वयं नेहशेषु शकुनो विशिष्यते ॥२४॥ ॥ टीका ॥ कथमुपयुज्यते । यदलेन नीतिशास्त्रवलेन जनाधिपाः जगतीं पालयंति । कीदृशाः महोद्यमा इति।महानुद्यमो येषां ते तथा। पुनः कीदृशाःसुधियः मुष्ठुधीर्येषां ते तथा एतेन बुद्धिनियोगाभ्यां सकलसमोहितप्राप्तेः दैवमेव शरणमित्यपास्तं वेदितव्यम्॥२१ उद्यमसाध्यतां देवस्य प्रतिपादयन्नाह ॥ पूर्वेति ॥ पुराविदः पंडिताःकर्म देवमिति संप्रचक्षते कथयंति कीदृशं कर्म पूर्वजन्मजनितमिति पूर्वजन्मनि भवांतरे जनितं नि पादितमित्यर्थः । तत्कर्म तदोद्यमेनोपार्जितं तत्तस्मात्कारणादैवमुद्यमवशं कथं न स्यात् अपि तु स्यादेव ॥ २२ ॥ तनिरूप्यति ॥ पूरुषः शकुनेनायतावुत्तरकाले। "आयतिस्तूत्तरः कालः" इति हैमः । तत्पूर्वकर्मपरिपाकं निरूप्य परिज्ञाय संचरेत इतस्ततो गच्छेदित्यर्थः । किं कुर्वन् चिन्तयन् । किमात्मनो हितं । कीदृशः पुरुषकारतत्पर इति पुरुषाणां कारं मुचिरं चिरकालं कृत्यं तत्र तत्परः उद्यमवानित्यर्थः ॥ २३ ॥ वेत्ति मामयमिति ॥ तदर्शयति भवतीत्यर्थः । अयं शकुनः ॥ भाषा ॥ जा नीतिशास्त्रके बलकरके सुंदर है बुद्धि जिनकी और महान् हैं उद्यम जिनके, ऐसे मनुध्यनके अधिप राजा पृथ्वीकू पालन करै हैं, या करके ये आयो बुद्धिक नियोगकरके संपर्ण वांछित प्राप्ति है याते दैव कारण नहींरह्यो ये जाननो योग्यहै ॥ २१ ॥ पूर्वइति ॥ पूर्ववेत्ता जे पंडित ते पूर्वजन्मके कर्म• ही देव कहे है, सो कर्म उद्यमकरके संचय कियोहयो है, ताकारणते दैव उद्यमके वश कैसे नहीं है, अपि तु वो दैव उद्यमकेई वशहै ॥ २२ ॥ तनिरूप्येति ।। पुरुषनके कृत्यमें तत्पर होयरह्यो ऐसो पुरुष या जन्ममें शकुन करके पूर्वकर्मको फल ताय जानकरके फिर अपनो हित ताय चितवनकरत इतउत विचारै ॥ २३ ॥ वेत्तिमामयमिति।। ये शकुन मोकू जान हैं कि, नहीं जाने है, और मेरी करीहुई पूजादिक ये मान्ह Aho ! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy