________________
(५०८ ) वसंतराजशाकुने - एकोनविंशतितमो वर्गः ।
ग्रामांतिके सप्तदिनानि यावन्महाभयोत्पादिकफेत्कृतेन ॥ विरौति चेत्तत्कुरुते शृगाली तद्वासिलोकस्य भयं प्रभूतम् ॥ ७० ॥ मध्यंदिने यावदहानि पंच शिवा समीपे नगरस्य · यस्य ॥ विरौति घातं विदधाति तस्य भयं च वह्निप्रभवं प्रभूतम् ॥ ७१ ॥ पंचार्द्धरात्राणि कथंचिदेषा क्रूरावा व्याहरते शृगाली || यस्यांतिके तं बहवो हठेन मुष्णंति चौरा जनसंनिवेशम् ॥ ७२ ॥ स्थानस्य यस्योपगता समीपं शिवा प्रगे पंचदिनानि यावत् ॥ जाते भृशं प्रोच्चस्ते तदा स्यान्महाजनानां महती च हानिः ॥ ७३ ॥
॥ टीका ॥
- स शून्यतामुदसतां गच्छति वा अथवा लोकस्य प्रभूतमसुखं स्यात् ॥ ६९ ॥ ग्रामांतिके इति ॥ चेच्छ्रगाली ग्रामस्य अंतिके समीपे सप्तदिनानि यावत् महाभयोत्पादि क फेत्कृतेन विरौति तदा तद्वासिलोकस्य महद्भयं कुरुते ॥ ७० ॥ मध्यमिति ॥ यस्य नगरस्य समीपे शिवा मध्यंदिने मध्याह्ने पंच अहानि पंचदिनानि यावद्विरौति तस्य नगरस्य घातं विदधाति । वह्निप्रभवं प्रभूतं भयं च विदधाति ॥ ७१ ॥ पंचेति ॥ यस्यांतिके एषा शृगाली क्रूरारवा सती पंचार्द्धरात्राणि पंच निशीथान् ग्रामे यदि कथं विद्याहरते फेत्कुरुते तदा जनसन्निवेशं तं ग्रामं बहवश्चौरा हठेन मुष्णंति । “निशीथस्त्वर्द्धरात्रं स्यात् " इत्यजयः ॥ ७२ ॥ स्थानस्येति ॥ शिवा शृगालभार्या यस्थ स्थानस्य समीपमुपगता सती प्रगे प्रभाते जाते पंच दिनानि यावत्प्रोच्चरते भृशं फेस्कृतानि कुरुते तदा तत्र महाजनानां महतां पुंसां महती हानिः स्यात् ॥ ७३ ॥ ॥ भाषा ॥
फे शब्द करे तो निश्चय शून्यता नाम उजाडदे अथवा जननकूँ बहुत दुःख होय ॥ ६९ ॥ ग्रामांति इति ॥ जो शृगाली ग्रामके समीपमें सातदिन तांई महाभयं प्रगट करबेवालो फेत्कार शब्द करके बेलि तो वा ग्राम में निवास करें उनके महान् भय करे ॥ ७० ॥ मध्यमिति ॥ जा नगरके समीपमें मध्याह्नकी समय पाँच दिन ताई शृगाली बोले तो वा नगरको घात करै और अग्निको बहुत भय करे ॥ ७१ ॥ पंचेति ॥ जा गामके पास शृगाली क्रूर शब्द साढे पांचरात्रि तांई बोले तो बहुतसे चोर हठकरके ग्रामकूं छूटें || ॥ ७२ ॥ स्थानस्येति ॥ शृगाली जा स्थानके पास आयकरके प्रातः काल होय वा
Aho! Shrutgyanam