SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ (३९६) वसंतराजशाकुने-चतुर्दशो वर्गः। ग्रामे पुरे वा यदि वन्यसत्त्वा रात्रौ प्रविष्टा दिवसे च दृष्टाः॥ यदा तदाशूद्रसतामुपैति स्युम॒त्यवे तत्रमृतप्रमूताः॥१९॥ गृहागता गेहपतेर्भयाय पुरस्य रोधाय तु गोपुरस्थाः ॥ स्युर्वन्यसत्त्वाःशकुनानितेषामुद्भावनीयान्यपराणि चैवम् ॥५०॥ इति वसंतराजशाकुने चतुर्दर्शा वर्गः समाप्तः ॥ १४ ॥ ॥ टीका ॥ रशब्दो येषां ते तथोक्ताः भिये भवंति ते अरण्यचरा ग्राम्यचरानुशब्दाः रोधाय भवंति परस्परानुस्वननेन ग्राभ्यचरशब्दानंतरं शब्दो येषां ते तथोक्ताः बंधग्रहसंप्र. युक्तां भीति वदंति अन्योन्यं साध जल्पनेन "मिथोऽन्योन्यं परस्परम्" इति केशवः केचित्तु आरण्यचराणां सदृशःशब्दो येषां ते आरण्यचरानुनादाः ग्राम्यचराणां सदृशः शब्दो येषां ते ग्राम्यचरानुनादा इति व्याख्यायते ॥ ४८ ।। ग्रामे इति।। वन्यसत्त्वाः वन्यपशवः ग्रामे पुरे वा रात्रौ प्रविष्टाः प्रवेशं कृतवंतः यदा दिवसे च दृष्टाः स्युः तदाः शीघ्रं तनगरं उद्धसतामुपैति गच्छति तत्र ग्रामे पुरे वा मृतप्रसूताः मृताश्च प्रसूताश्चेति द्वंद्वः जनानां मृत्यवे स्युः॥४९॥ गहा इति ॥ वन्यसत्त्वाः गृहागताः गृहप्रविष्टा गृहपतेर्भयाय भवति तथा गोपुरस्थाः नगरस्थाः पुरस्य रोधाय आवरणाय स्युः एवममुना प्रकारेण तेषां वन्यसत्त्वानाम पराणि शकुनानि उद्भावनीयानि ज्ञातव्यानि “पूरे गोपुरं रथ्या प्रतोली विशिखाः समाः" इति हैमः॥ ५० ॥ इति शत्रुजयकरमोचनादिस्कृतकारिमहोपाध्यायश्रीभानुचंद्रविरचितायां वसंतराजशाकुनटीकायां चतुष्पादवर्णनं नाम चतुर्दशो वर्गः ॥ १४ ॥ ॥भाषा॥ फिर ग्रामके बोलें तो पीछे वनके जीव बोलें तो बंदीखाने करके सहित भय होय ॥ ४८ ॥ ग्रामे इति ॥ वनके पशु ग्राममें वा पुरमें रात्रिमें प्रवेशकर जांय जो दिवसमें दीख जाय तो शीघ्रही वो ग्रामपुर नाशकू प्राप्त होय जाय ता ग्राममें वा पुरमें मनुष्यनके मृत्युके अर्थ जानना ॥ ४९ ।। गहा इति ॥ बनके पशु घरमें आय जाय तो घरके पतिकू भयके मर्थ होय. जो नगरके द्वारेपै स्थित होय तो वा नगरकू शत्रु आय करके रोकले जैसे ये कहेहैं तैसेही वनके जीवनके शकुन और भी जानबेकू योग्य है ॥ ५० ॥ इति श्रीमज्जटाशंकरतनयज्योतिर्विच्छ्रीधरविरचितायां वसंतराजभाषाटीका. यो चतुष्पदानां प्रकरणे चतुर्दशो वर्गः ॥ १४॥ Aho ! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy