SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ४८-५०] उणादिविवृतिः। पपरीकोनिः कुररो भक्ष्यः कुर्कुरश्च ।। दृश् विदारणे । दर्दरीको दाडिम इन्द्रो वादित्रविशेषो वादित्रभाण्डं च ॥ शृश् हिंसायाम् । शहरीकः कृमिर्विकलेन्द्रियो दुष्टाश्वो लावकश्च | शहरीका मङ्गल्याभरणम् ॥ वृग्ट बरणे | वर्वरीकः संवरणमुरणः पतत्री केशसंघातश्च । वर्वरीका सरस्वती || मंत् प्राणत्यागे | मर्मरीकोग्निः सूरः श्येनश्च ।। ४७ ।। मच्य॒जिहषीषिदृशिमृडिशिलिनिलीभ्यः कित् ।। ४८ ॥ एभ्यः किदीकः प्रत्ययो भवति ।। ऋचत् स्तुतौ । ऋचीक ऋषिः । ऋजि गतिस्थानार्जनोर्जनेषु । ऋजीकं वज्रं बलं स्थानं च || हषू अलीके । हषच तुष्टौ वा । हृषीकमिन्द्रियम् ।। इषत् इच्छायाम् । ईष उञ्छे । ईषि गतिहिंसादर्शनेषु वा । इषीका | ईषीका च तृणशलाका ॥ दृशं प्रेक्षणे | दृशीकं मनोज्ञम् । दृशीका रजस्वला ।। मृडत् सुखने | मृडीकं सुखकृत्सुखं च || शिलत् उञ्छे । शिलीकः सस्यविशेषः ।। लींड्च् श्लेषणे | निपूर्वः । निलीकं वृत्तम् । बाहुलकादीलुक् ।। ४८ ।। ___मृदेर्वोन्तश्च वा ।। ४९ ।। मृदेः किदोकः प्रत्ययो भवति वकारश्चान्तो वा भवति ।। मृदश् क्षोदे । मृडीका मृदीका च द्राक्षा || ४९ ॥ सृणीकास्तीकप्रतीकपूतीकसमीकवाहीकवाल्हीकवल्मीककल्मलीकतिन्तिडीककङ्कणीककिङ्किणीकपुण्डरीकच चरीकफर्फरीकझझरीकघर्षरीकादयः ॥५०॥ एते किदीकप्रत्ययान्ता निपात्यन्ते || सोन्तश्व | सृणीको वायुरनिरशनिरुन्मत्तश्च | सृणीका लाला || अस्तेस्तोन्तश्च । अस्तीको जरत्कारुसुतः ॥ प्रांक पूरणे । प्रातेस्तोन्तो हस्त्रश्च । प्राति शरीरमिति प्रतीको वायुरवयवः सुखं च | सुप्रतीको दिग्गजः॥ पुवस्तोन्तश्च | पूतीकं तृणजातिः ।। सम्पूर्वस्य एतेर्लुक् च | संयन्त्यस्मिन्निति समीकं संपामः ॥ वहिवल्योर्दीर्घश्च | वाहीकः । वाल्हीकः । एतौ देशौ ॥ वलेर्मोन्तश्च । वल्मीको नाकुः ॥ कलेमलश्वान्तः। कल्मलीकं ज्वाला ।। तिमस्ति चान्तः । तिन्तिडीकः पक्षी वृक्षामुश्च । तन्तिडीक इति पूर्वस्येत्वं नेच्छन्त्येके ।। चङ्क्षण्यतेः कङ्कण च | कङ्कणीको घण्टाजालम् ॥ किमः परात् कणेः किण च । किङ्किणीका घण्टिका ॥ पुणेर्डर् चान्तः पुण्डतेर्वा अर् । पुण्डरीकं पद्म छन्त्र व्याघ्रथ || चञ्चेरर चान्तः । चञ्चरीको भ्रमरः ।। पिपतेर्गुणो Aho! Shrutagyanam
SR No.034211
Book TitleUnadigana Sutra
Original Sutra AuthorHemchandracharya
Author
PublisherEducation Society Press
Publication Year1895
Total Pages314
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy