SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ हेमचन्द्रव्याकरणे [४२-१७ प्राडः पणिपनिकषिभ्यः ॥ ४२ ॥ प्राडित्यस्मादुपसर्गसमुदायात्परेभ्य एभ्य किदिकः प्रत्ययो भवति ॥ पणि व्यवहारस्तुत्योः। प्रापणिको बणिक् || पनि स्तुती । प्रापनिकः पथिकः || कष हिंसायाम् । प्राकषिको वायुः खलो नर्तको मालाकारश्च ।। प्रपूर्वात् पणेराड्पूर्वाच्च कषेरिच्छन्त्यन्ये । प्रपणिको गन्धविक्रयी || आकषिको न कर्तव्यः ॥ ४२ ॥ मुषेर्दीर्घश्च ॥ ४३ ॥ मुषेरिकः प्रत्ययो भवति दीर्घश्च स्वरस्य [भवति ||] मूषिक आखु:।। ४३ ।। स्यमेः सीम् च ॥ ४४ ॥ स्यमेरिकः प्रत्ययो भवत्यस्य च सीमित्यादेशो भवति || स्यम् शब्दे | सीमिको वक्ष उदककृमिश्च । सीमिकोपजितिका ।। सीमिकं वल्मीकम् ।। केचिन्सिमिति हस्वोपान्त्यमादेशं प्रत्ययस्य च दीर्घत्वमिच्छन्ति । सिमीकः सूक्ष्मकृमिः ॥ ४४ ॥ __कुशिकहदिकमक्षिकेतिकपिपीलिकादयः ॥ ४५ ॥ एते किदिकप्रत्ययान्ता निपात्यन्ते । कुर्षेः श च । कुशिको मुनिः ।। हगो दोन्तश्च । हदिको यादवः ।। मषेः सोन्तश्च । मक्षिका क्षुद्रजातिः ॥ एते. स्तोन्तश्च । इतिको मुनिः॥ पीलेई च। पिपीलिका मध्यक्षामा कीट जातिः ।। आदिग्रहणात् ग[ब्दक[भुरिकभुलिकादयो भवन्ति ॥ ४५ ॥ स्यमिकषिदूष्यनिमनिमलिवल्यलिपालिकाणिभ्य ईकः ।। ४६ ।। एभ्य ईकः प्रत्ययो भवति ।। स्यमू शब्दे | स्यमीको वृक्षो वल्मीको नृपगोनं च | स्यमीकं जलम् । स्यमीका कृमिजातिः ।। कष हिंसायाम् । कषीका कुहालिका || दुषंच वैकृत्ये । ण्यन्तः । दूषीका नेत्रमलो वीरणजातिवतिर्लता च ।। अनक् प्राणने । अनीकं सेनासमूहः संग्रामश्च || मनिंच ज्ञाने । मनीकः सूक्ष्मः ।। मलि धारणे । मलीकमजन मरिश्च || वलि संवरणे | वलीको बलवान्पटलान्तश्च । वलीकं वेश्मदारु ।। अली भूषणादौ | अलीकमसत्यम् । अलीका । पण्यस्त्री । व्यलीकमपराधः । व्यलीका लज्जा || पलण रक्षणे | पालीकं तेजः || कण शब्दे | कणीकः पटवासः । कणीका भिनतण्डुलावयत्रो वनस्पतिबीजं च ॥ ४६॥ जपशवमृभ्यो द्वे रश्चादौ ।। ४७ ।। . एभ्य ईकः प्रत्ययो भवति द्वे च रूपे भवत एषां चादौ रो भवति ॥ जृष्च जरसि । जर्जरीका शतपची ।। पृश् पालनपूरणयोः । पर्परीका जलाशयः सूर्यश्च । Aho 1 Shrutagyanam
SR No.034211
Book TitleUnadigana Sutra
Original Sutra AuthorHemchandracharya
Author
PublisherEducation Society Press
Publication Year1895
Total Pages314
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy